Enter your Email Address to subscribe to our newsletters

विधानसभायाः विशेष सत्रात् प्राक् मुख्यमंत्री पत्रकारैस्सहाकरोत् वार्ताम्
लखनऊ, 30 अप्रैलमासः (हि. स.)।मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे विधानसभायाः एकदिवसीयविशेषसत्रात् पूर्वं कांग्रेस, समाजवादी पार्टी तथा इंडी गठबन्धनं प्रति तीक्ष्णं प्रहारं कृतवान्। तेन एते दलाः महिलाविरोधिनः इति निर्दिश्य उक्तं यत् नारीशक्तिवन्दनाधिनियमस्य संशोधनं निरोद्धुं तेषां आचरणस्य निन्दार्थं एतत् विशेषसत्रं आहूतम्।
मुख्यमन्त्री योगी आदित्यनाथः विधानसभासत्रात् पूर्वं प्रातःकाले पत्रकारैः सह संवादं कृतवान्। सः कांग्रेस तथा समाजवादी पार्टी प्रति लक्ष्यं कृत्वा अवदत् यत् एते दलाः जन्मजातरूपेण महिलाविरोधिनः सन्ति। तेषां स्वभावे सर्वत्र नारीअवमानना निहिता अस्ति। यदा यदा समाजवादी पार्टी राज्ये सत्तां प्राप्तवती तदा तदा महिलासु अत्याचाराः क्रूरघटनाः च अतीव बर्बररूपेण अभवन्। सर्वे जनाः जानन्ति यत् तस्यां काले देख सफाई बिटिया घबराई इति घोषवाक्यं प्रसिद्धम् अभवत्। स्टेट गेस्टहाउस काण्डं वा अन्यानि महिलासम्बद्धानि अत्याचारप्रकरणानि एतेषां दलानां छवि सर्वविदिता अस्ति।
मुख्यमन्त्री विपक्षं प्रति कटाक्षं कृत्वा अवदत् यत् तेषां समीपे स्वछविं शुद्धीकरणस्य उत्तमः अवसरः आसीत्। ते नारीशक्तिवन्दनसंशोधनविधेयके सहयोगं कृत्वा स्वमहिलाविरोधीछविं परिवर्तयितुं शक्नुवन्तः आसन् किन्तु तेन अवसरः अपि त्यक्तः। अधुना ते निरन्तरं प्रयतन्ते यत् एषः संशोधनः अधिनियमश्च न प्रवर्तेत। विपक्षेन एतेषु प्रयासेषु देशे राज्ये च व्यवस्थायाः विषये प्रश्नाः अपि उत्पन्नाः।
मुख्यमन्त्री उक्तवान् यत् अद्य सर्वदिनं अस्मिन् विषये एव चर्चा भविष्यति। प्रधानमन्त्री नरेन्द्र मोदी प्रति कृतज्ञता अपि व्यक्ता भविष्यति यतः तस्य नेतृत्वे महिलाभ्यः गरिमा सम्माननीयस्थानं स्वावलम्बनं तथा सशक्तीकरणं लभ्यते। नीतिनिर्धारणे महिलानां सहभागिता वर्धयितुं भारतीय जनता पार्टी तथा एनडीए गठबन्धनं निरन्तरं अग्रे गच्छति। मुख्यमन्त्री शाहबानो प्रकरणात् आरभ्य अद्यपर्यन्तं इतिहासस्य उल्लेखं कृत्वा उक्तवान् यत् विपक्षः सर्वदा महिला आरक्षणस्य मार्गे बाधकः अभवत्। अद्यतन चर्चायां सपा कांग्रेस डीएमके टीएमसी तथा अन्येषां सहयोगिदलानां महिलाविरोधीस्वभावः सम्पूर्णतया उद्घाट्यते।
अन्ते मुख्यमन्त्री विधानमण्डलदलस्य सर्वान् सदस्याञ् प्रति आह्वानं कृतवान् यत् ते चर्चायां सक्रियतया भागं गृह्णन्तु। सः सपा तथा कांग्रेस दलयोः सदस्येभ्यः अपि उक्तवान् यत् यदि तेषां नैतिकसाहसम् अस्ति तर्हि ते चर्चायां भागं गृह्णन्तु तथा स्पष्टतया वदन्तु यत् नारीशक्तिवन्दनसंशोधनविधेयकस्य विरोधः किमर्थं कृतः। अस्य विरोधस्य पृष्ठे का मंशा आसीत् इति अपि उद्घोषयन्तु। यदि तेषां मतम् अस्ति यत् तेषां नेतृभिः दोषः कृतः तर्हि तेषां कर्तव्यं भवति यत् ते क्षमां याचेरन् अथवा निन्दाप्रस्तावं पारयित्वा महिलाविरोधीआचरणस्य निन्दायाः भागिनः भवन्तु। ये नेतारः अर्धजनसंख्यां राजनैतिकसशक्तीकरणात् आरक्षणलाभात् च वञ्चितवन्तः तेषां निन्दा अवश्यमेव करणीया।
---------------
हिन्दुस्थान समाचार