Enter your Email Address to subscribe to our newsletters

लखनऊ, 30 अप्रैलमासः (हि. स.)।
उत्तरप्रदेशविधानसभायां गुरुवासरे पूर्वाह्णे एकादशवादने सभाकार्यवाही प्रारब्धा। विधेयकार्यसमापनानन्तरं वित्तसंसदीयकार्यमन्त्री सुरेशकन्ना कार्यमन्त्रणासमित्याः अनुशंसानां आधारेण नियम ३०१ अन्तर्गतं “नारीसशक्तिकरण” विषयकां चर्चां कर्तुं प्रस्तावं न्यवेदयत्।तस्मिन् प्रस्तावे प्रस्तुते सति विपक्षनेता माताप्रसादपाण्डेयः अवदत् यत् एषः विषयः अस्याः विधानसभायाः न, किन्तु संसदेः विषयः अस्ति, अतः अत्र अस्य चर्चा न कर्तव्या। अस्मिन् विषये संसदीयकार्यमन्त्री प्रत्यवदत् यत् तेन तादृशः कश्चन विशेषः विषयः न निर्दिष्टः, केवलं नारीसशक्तिकरणम् एव विषयः अस्ति, यस्मिन् विषये अत्र चर्चा कर्तुं शक्यते; अतः अस्मिन् विषये कालव्ययः न कर्तव्यः।अनन्तरं पीठात् सभापतिः सतीशमहाना उक्तवान् यत् यदि अयं विषयः सभायां प्रस्तुतः अस्ति, तर्हि तस्य स्पष्टीकरणम् अपि अपेक्षितम्। सः अवदत् यत् अस्मिन् विषयः चर्चा कर्तुं शक्यते। प्राचीनविधानसभालेखानां उल्लेखं कृत्वा सः उक्तवान् यत् समाजस्य कस्यापि ज्वलन्तस्य विषयस्य विषये अत्र चर्चा भवितुं शक्नोति। नारीसशक्तिकरणम् अत्यन्तं महत्त्वपूर्णं विषयः अस्ति, अतः अस्य विषये चर्चा विधानसभायां भवितुमर्हति।ततः अनन्तरं नेता सदनस्य मुख्यमन्त्री योगीआदित्यनाथः सभां प्रति भाषणम् आरब्धवान्। सः विपक्षं स्त्रीविरोधिनं निरूप्य स्वस्य शासनस्य उपलब्धयः उल्लिखितवान्। सः उक्तवान् यत् ये स्वयम् “समाजवादी” इति कथयन्ति, ते नारीसशक्तिकरणे बाधां अनुभवन्ति।उल्लेखनीयम् यत् नारीसशक्तिकरणविषये विशेषसत्रम् आहूतम्, अद्य दिवसभरं अस्मिन् विषये निरन्तरा चर्चा भविष्यति।सभायाः कार्यवाह्यां अधिकारीदीर्घायां पंकजचौधरी तथा धर्मपालसिंहः अपि उपस्थितौ स्तः।
---------------
हिन्दुस्थान समाचार