Enter your Email Address to subscribe to our newsletters

जांजगीर चांपा, 6 अप्रैलमासः (हि. स.)।छत्तीसगढ़राज्यस्य मुख्यमन्त्री विष्णु देवः साय जांजगीर-चांपा जनपदस्य युवा पर्वतारोहिणी अमिता श्रीवासे तस्याः आगामि माउंट एवरेस्ट अभियानाय शुभाशिषः अददात्।
मुख्यमन्त्री सायः अद्य सोमवासरे राजधानीस्थे रायपुरनगरे मुख्यमन्त्रीनिवासे पर्वतारोहिण्या अमिता श्रीवासया सह मिलित्वा उक्तवान् यत् आगामिनि नवम्यां तिथौ अमिता विश्वस्य सर्वोच्चशिखरं माउंट एवरेस्टे तिरङ्गध्वजं स्थापयितुं संकल्पेन काठमाण्डुनगरं प्रति प्रस्थितुं सज्जा अस्ति। एषा केवलं व्यक्तिगतसिद्धेः यात्रा नास्ति, अपितु समग्रस्य छत्तीसगढ़स्य आकाङ्क्षाणां साहसस्य आत्मविश्वासस्य च उच्चोन्नतिः अस्ति।
तेन उक्तं यत् अमिता श्रीवासस्य अयं अभियानः अस्य प्रमाणं यत् यदि संकल्पः दृढः भवति तर्हि काचिदपि ऊँचता असम्भवा न भवति। प्रदेशस्य कन्याः अद्य सर्वेषु क्षेत्रेषु स्वप्रतिभया परिश्रमेण च नूतनमानकानि स्थापयन्ति तथा छत्तीसगढ़स्य नूतनपरिचयं निर्मिमते।
मुख्यमन्त्री सायः अवदत् यत् अमिता श्रीवासया वर्षे 2021 तमे अन्तर्राष्ट्रीयमहिलादिवसे माउंट किलिमंजारो शिखरं जयित्वा स्वस्य क्षमता दृढता च पूर्वमेव प्रदर्शिता। तस्याः एषः सततप्रयत्नः न केवलं उपलब्धिः, अपितु प्रदेशस्य युवा पीढेः विशेषतः कन्यानां कृते जीवन् प्रेरणास्त्रोतः अस्ति।
सः विश्वासं व्यक्तवान् यत् अमिता अस्मिन् साहसिके अभियाने सफलतां प्राप्य विश्वस्य सर्वोच्चशिखरे देशस्य तिरङ्गध्वजं स्थापयिष्यति तथा छत्तीसगढ़स्य सह समग्रराष्ट्रस्य गौरवं वर्धयिष्यति।
अन्ते मुख्यमन्त्री सायः प्रदेशवासिनां पक्षतः अमिता श्रीवासे अस्मिन् महत्त्वपूर्णे अभियाने हार्दिकशुभकामनाः प्रदत्तवान् तथा तस्याः उज्ज्वलभविष्यस्य कामनां कृतवान्।
---------------
हिन्दुस्थान समाचार