Enter your Email Address to subscribe to our newsletters

जम्मूनगरम्, ०६ अप्रैलमासः (हि.स.) – जम्मू-कश्मीरराज्ये बगानी-ग्रामे भारतीयसेनायाः “व्हाइट नाइट कोर”-इत्यस्य “क्रॉस्ड स्वॉर्ड्स गनर्स्”-विभागेन सामुदायिक-कल्याणार्थं बहु-विशेषज्ञ-चिकित्साशिबिरस्य सफलम् आयोजनम् जातम्। अग्रिम-विश्व-स्वास्थ्य-दिनस्य दृष्ट्या अस्य शिबिरस्य विषयः “स्वस्थ ग्रामः, सुरक्षित ग्रामः” इति निरूपितः।
अस्मिन् स्वास्थ्य-शिबिरे आहत्य २१८ स्थानिकग्रामवासिनः उत्साहेन भागं कृत्वा विशेषज्ञ-वैद्य-समूहेन सञ्चालितं जनरल-ओपीडी-माध्यमेन व्यापकं चिकित्सापरामर्शं प्राप्तवान्। शिबिरे रुग्णेभ्यः निःशुल्क-औषधयः प्रदत्ताः, तथा मूलभूत-रोगनिदान-सेवाः अपि उपलभ्यन्ते, येन आवश्यकीयेषु जनेषु त्वरितं उपशमनं साध्यते।
अयं प्रयत्नः पीपुल्स-हट्-फाउण्डेशन-इत्यस्य सहकारेण आयोज्यते, यः नागरिक-सैनिक-सहभागितायाः दृढम् उदाहरणं प्रदर्शयति। संयुक्तप्रयत्नस्य उद्देश्यं दूरवर्तीषु वञ्चितेषु च क्षेत्रेषु स्वास्थ्य-सेवानां संशोधनं कर्तुं भवति।
अस्य शिबिरस्य सफलतायाः भारतीयसेनास्थलीय-सामुदायिक-सेवा तथा निवारक-स्वास्थ्य-रक्षणं प्रति प्रतिबद्धतां प्रकटयति। “स्वस्थ ग्रामः, सुरक्षित ग्रामः” इत्यादिभ्यः अभियानेभ्यः सेना ग्रामीणक्षेत्रेषु स्वस्थं, सुरक्षितं, सशक्तं समाजं च निर्मातुं निरन्तरं प्रयत्नशीलः अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता