Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 06 अप्रैलमासः (हि.स.)।
दिल्लीस्य मुख्यमन्त्री रेखा गुप्ता सोमवासरे मुख्यमंत्री जनसेवा सदने दिल्ली नगर निगमस्य (एमसीडी) स्वच्छता कर्मकर संघस्य कोर समितेः प्रतिनिधिभिः सह मिलिता।
मुख्यमन्त्री रेखा गुप्ता जनसेवा सदने निगमस्य स्वच्छता कर्मकर संघस्य कोर समितेः प्रतिनिधिभिः सह संवादं कृत्वा तेषां समस्याः सुझावान् च स्थलीय चुनौतयः अपि अशृणोत्।
अस्मिन् अवसरे मुख्यमन्त्री उक्तवती यत् दिल्लीं स्वच्छां स्वस्थां सुव्यवस्थितां च कर्तुं अस्माकं स्वच्छता कर्मकराणां निःस्वार्थभावेन कृतं योगदानम् अत्यन्तं प्रशंसनीयम् अस्ति। एषा सेवा निरन्तरं संकल्परूपेण वर्तते, या प्रतिदिनं दिल्ल्याः जीवनं सुलभं करोति।
रेखा गुप्ता स्वच्छता कर्मकर संघस्य कोर समितेः प्रतिनिधीन् आश्वासयत् यत् सर्वकारः तेषां सह दृढतया स्थित्वा सर्वेषां विषयाणां समाधानाय निरन्तरं कार्यं कुर्वती अस्ति।
तया उक्तं यत् प्रत्येकं स्वच्छता कर्मकरः सम्मानं सुरक्षां उत्तमानि कार्यपरिस्थितीनि च प्राप्नुयात्, तेषां श्रमसमर्पणेन एव दिल्ली अग्रे गच्छति।
---------------
हिन्दुस्थान समाचार