Enter your Email Address to subscribe to our newsletters

प्रयागराजनगरम्, ८ मईमासे उत्तरप्रदेश-राजर्षि-टंडन-मुक्त-विश्वविद्यालयेन च भारतीय-सामाजिक-विज्ञान-अनुसंधान-परिषद्, नवदिल्ली च संयुक्ततया एक-दिवसीया राष्ट्रीय-संगोष्ठी आयोजिता।
कुलपतिः प्रो.सत्यकामः अवदत् यत् संगोष्ठ्याः उद्देश्यं देशस्य जीएसटी-संशोधनानां प्रभावान् अध्ययनं, नीति-निर्मातृभ्यः विचाराणां प्रस्तुतिः, डिजिटल-परिवर्तनं राजकोषीय-सुदृढीकरणं संवर्धनं च। चार्टर्ड-लेखाकाराः, शिक्षाविद्, निवेशकाः च उद्योगविशेषज्ञाः अत्र भागं ग्रहीतुं आमन्त्रिताः।
मुक्तविश्वविद्यालयस्य जनसंपर्क-अधिकारी डॉ.प्रभातचन्द्रमिश्रः अवदत् – विकसित-भारत-2047 राष्ट्रीय-दृष्टिकोणस्य समर्थनाय व्यावहारिक-नीतिगत-अनुशंसानां विकासः अस्याः राष्ट्रीय-संगोष्ठ्याः मुख्यम् उद्देश्यम्। संगोष्ठ्याः आयोजनाय विश्वविद्यालयस्य प्रबंधन-विद्या-शाखा आचार्य प्रो.देवेश-रंजन-त्रिपाठी संयोजकत्वेन नामितः। प्रो.त्रिपाठी सर्वान् उच्च-शिक्षा-संबद्ध-प्राध्यापकान्, शोधार्थिनः विद्यार्थिनः च आईसीएसएसआर-सहयोगेन अस्यां राष्ट्रीय-संगोष्ठ्यां भागं ग्रहीतुम् आमन्त्रितवान्। सम्पूर्ण-संगोष्ठी-विवरणं पंजीकरण-प्रारूपं च मुक्तविश्वविद्यालयस्य जालपृष्ठे उपलब्धम्।
हिन्दुस्थान समाचार / अंशु गुप्ता