भाजपा-प्रदेशाध्यक्षः हेमन्त-खण्डेलवालः अद्यतः विभिन्न-जनपदानां द्विदिवसीय-प्रवासे
भोपालनगरम्, ०७ अप्रैलमासः (हि.स.)। भारतीय-जनता-पक्षस्य प्रदेशाध्यक्षः हेमन्त-खण्डेलवालः अद्य मङ्गलवासरात् द्विदिवसीय-रायसेन-विदिशा-मुरैना-भिण्ड-जनपदानां प्रवासे भविष्यति। अस्मिन् अवसरे विभिन्न-जनपदेषु आयोजिताः जनपद-सभा, जनपद-जनप्रतिनिधि-सभा तथा लघु
भाजपा प्रदेश अध्यक्ष हेमंत खण्डेलवाल


भोपालनगरम्, ०७ अप्रैलमासः (हि.स.)। भारतीय-जनता-पक्षस्य प्रदेशाध्यक्षः हेमन्त-खण्डेलवालः अद्य मङ्गलवासरात् द्विदिवसीय-रायसेन-विदिशा-मुरैना-भिण्ड-जनपदानां प्रवासे भविष्यति। अस्मिन् अवसरे विभिन्न-जनपदेषु आयोजिताः जनपद-सभा, जनपद-जनप्रतिनिधि-सभा तथा लघु-टोली-सभा च सम्बोधयिष्यति।

भाजपा-प्रदेश-मीडिया-प्रभारी आशीष-अग्रवालः सूचनां दत्त्वा उक्तवान् यत् भाजपा-प्रदेशाध्यक्षः हेमन्त-खण्डेलवालः अद्य मङ्गलवासरे मध्याह्ने १२ वादने रायसेन-जनपदे जनपद-सभां तथा जनपद-जनप्रतिनिधि-सभां सम्बोधयिष्यति, ततः मध्याह्ने १.३० वादने लघु-टोली-सभां सम्बोधयिष्यति। अनन्तरं सायं ४.३० वादने विदिशा-जनपदे जनपद-सभां तथा जनपद-जनप्रतिनिधि-सभां सम्बोधयिष्यति, सायं ६ वादने लघु-टोली-सभां सम्बोधयिष्यति।

भाजपा-प्रदेशाध्यक्षः अपरदिने ८ अप्रैलमासे, बुधवासरे प्रातः १० वादने मुरैना-जनपदे जनपद-सभां तथा जनप्रतिनिधि-सभां सम्बोधयिष्यति, ततः प्रातः ११.३० वादने लघु-टोली-सभां सम्बोधयिष्यति। सः मध्याह्ने २ वादने भिण्ड-जनपदे जनपद-सभां तथा जनप्रतिनिधि-सभां सम्बोधयिष्यति, सायं ६ वादने लघु-टोली-सभां सम्बोधयिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता