Enter your Email Address to subscribe to our newsletters


रांची, 07 अप्रैलमासः (हि.स.)। झारखण्डराज्यस्य मुख्यमन्त्री हेमन्त सोरेन मङ्गलवासरे असमराज्यस्य गुवाहाटीनगरे स्थिते प्रसिद्धे कामाख्या मंदिर पूजार्चनां कृत्वा राज्यवासिनां सुखसमृद्ध्यर्थं उज्ज्वलभविष्यस्य च कामनां कृतवान्।
मन्दिरे पुजारिभिः सम्पूर्णविधिना वैदिकमन्त्रउच्चारणेन सह पूजा सम्पन्ना। अस्मिन् समये मुख्यमन्त्री मातुः चरणयोः शिरः नमयित्वा झारखण्डस्य सर्वाङ्गीणविकासाय, शान्तये, जनकल्याणाय च प्रार्थनां कृतवान्।
अस्मिन् अवसरे मुख्यमन्त्री हेमन्तसोरेनः अवदत् यत् एतत् तस्य सौभाग्यं यत् तस्मै पुनः एकवारं मातुः कामाख्यायाः दर्शनस्य अवसरः प्राप्तः। तेन कामना कृता यत् मातुः कृपया झारखण्डराज्यं निरन्तरं प्रगतिपथे अग्रे वर्धताम्।
------------
हिन्दुस्थान समाचार