राज्यपालः संतोष गंगवारः प्रशिक्षवः आईएएस अधिकारिभ्यो दत्तवान् जनहिते कार्यंकर्तुं संदेशम्
रांची, 7 अप्रैलमासः (हि.स.)। झारखण्डराज्यस्य राज्यपालः संतोष कुमार गंगवारो मङ्गलवासरे भारतीयप्रशासनिकसेवायाः (आईएएस) प्रशिक्षु-अधिकारिभिः सह राञ्चीनगरस्थिते लोकभवने शिष्टाचारमेलनं कृतवान्। अस्मिन् अवसरे राज्यपालः प्रशिक्षु-अधिकारिभिः सह संवादं कृत
राज्यपाल और प्रशिक्षु आईएएस


राज्यपाल प्रशिक्षु आईएएस से बातचीत करते हुए


रांची, 7 अप्रैलमासः (हि.स.)। झारखण्डराज्यस्य राज्यपालः संतोष कुमार गंगवारो मङ्गलवासरे भारतीयप्रशासनिकसेवायाः (आईएएस) प्रशिक्षु-अधिकारिभिः सह राञ्चीनगरस्थिते लोकभवने शिष्टाचारमेलनं कृतवान्।

अस्मिन् अवसरे राज्यपालः प्रशिक्षु-अधिकारिभिः सह संवादं कृत्वा तान् जनहितं राज्यहितं च सर्वोपरि कृत्वा कार्यं कर्तुं उपदिष्टवान्। तेन उक्तं यत् झारखण्डे अपाराः सम्भावनाः सन्ति, राज्यं च विकासमार्गे अग्रे नेतुं विकसितराज्यानां श्रेण्यां स्थापयितुं च अधिकारिभिः समर्पणभावेन कार्यं करणीयम्।

राज्यपालः अधिकारिणः भूमिस्थितयथार्थेन सह सम्बद्धाः भवितुम् उपदिश्य उक्तवान् यत् ते नियमितरूपेण क्षेत्रभ्रमणं कुर्वन्तु तथा सामान्यजनैः सह सततं संवादं धारयन्तु। सः अपि अवदत् यत् प्रशासनिकसेवायां कस्यचित् व्यक्तेः परिचयः तस्य कार्येण व्यवहारैः च निर्मीयते, अतः पारदर्शिता, संवेदनशीलता उत्तरदायित्वं च अतीव आवश्यकम्।

तेन अधिकारिभ्यः सर्वासु परिस्थितिषु सजगाः सदा तत्पराः च भवित्वा समस्याः प्रभावकारिणा उपायेन समाधानं कर्तुं निर्देशः दत्तः, तेषां उज्ज्वलभविष्यस्य च कामना कृता।

अस्मिन् अवसरे राज्यपालस्य अपरमुख्यसचिवः डॉ. नितिन कुलकर्णी अपि उपस्थितः आसीत्।-------------

हिन्दुस्थान समाचार