Enter your Email Address to subscribe to our newsletters

--येन वंदे मातरम् स्वीकार्यते नैव तस्मै मताधिकारस्य अधिकारोऽपि न स्यात्
प्रयागराजः, 07 अप्रैलमासः (हि.स)। श्री-मिश्री-मठ-महादेव-हरिद्वारस्य तृतीय-महाधिपतेः महामण्डलेश्वरस्य पूर्ण-गुरोः करौली-शङ्कर-महादेव-महाराजस्य आगमनं श्री-पञ्चायती-अखाडा-नव-उदासीन-निर्माण-मुट्ठीगञ्जे मङ्गलवासरे अभवत्। सः उक्तवान् यत् भारतदेशे हिन्दू-राष्ट्रस्य आग्रहः प्रचलति, किन्तु भारतं पूर्वमेव हिन्दू-राष्ट्रम् अस्ति। सन्तानां मतम् अस्ति यत् भारतः सनातन-राष्ट्ररूपेण घोषितः भवेत्।
महामण्डलेश्वरः पूर्ण-गुरुः करौली-शङ्कर-महादेव-महाराजः उपस्थितान् सन्तान् व्यापारीन् नागरिकान् च सम्बोध्य उक्तवान्— धर्मं धारयितुं शिक्षध्वम्। धर्मः न केवलं पठनीय-वस्तु, अपि तु स्वान्तरे धारयितव्यः। यदा मनुष्यः स्वान्तरे धर्मं धारयति, तदा एव जीवनस्य आन्तरिक-शान्तिः प्राप्यते। धर्मः समस्या न, अपि तु समाधानम् अस्ति। धर्मेण एव सम्पूर्णे विश्वे शान्तिः स्थापयितुं शक्यते। सः अपि उक्तवान् यत् अस्माकं कानपुर-आश्रमे लक्षशः साधकाः वैदिक-परम्परायाः ज्ञानम् अधिगम्य साधनां कुर्वन्ति, ये आगामिषु कालेषु मनुष्यं महद्भ्यः रोगेभ्यः मोचयिष्यन्ति।
सः सम्बोधने उक्तवान् यत् ‘वन्दे मातरम्’ गीतं न, अपि तु भारतस्य सनातन-संस्कृतेः आत्मा अस्ति। ये भारतदेशे वसन्तः अपि ‘वन्दे मातरम्’ न स्वीकुर्वन्ति, ते मताधिकारात् वञ्चनीयाः इति तेन उक्तम्।
ततः पूर्वं तस्य आगमने स्थानीय-व्यापारिभिः अखाडस्य सन्तैः च पुष्पवृष्ट्या तस्य स्वागतं कृतम्। अस्मिन् अवसरे श्री-पञ्चायती-अखाडा-नव-उदासीन-निर्वाणस्य सचिवः महन्तः जगतार-मुनिः तथा श्री-पञ्चायती-अखाडा-निर्मलस्य सचिवः महन्तः देवेन्द्र-शास्त्री तं अङ्गवस्त्रेण सम्मानितवन्तौ।
स्वागतकर्तृषु नव-उदासीन-अखाडस्य प्रवक्ता तथा मीडिया-प्रभारी राजेश-केसरवानी, व्यापारी-नेता सन्तोष-अग्रहरि, अभिलाष-केसरवानी, सन्दीप-अग्रहरि, सुशील-चन्द्र-गुप्तः तथा अखाडस्य सन्ताः, स्थानीय-नागरिकाः व्यापारी-बान्धवाः च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार