Enter your Email Address to subscribe to our newsletters

कोलकाता, 07 अप्रैलमासः (हि.स.)।
पश्चिमबङ्गालराज्यस्य मुख्यमन्त्री ममता बनर्जी मङ्गलवासरे सामाजिकमाध्यमे ‘एक्स्’ इत्यत्र विश्वविख्यातस्य सितारवादकस्य पंडित रवि शंकर जन्मदिने तस्मै श्रद्धाञ्जलिं अर्पितवती।
स्वसन्देशे सा अवदत् यत् पण्डित रवि शंकरः केवलं महान् संगीतकारः न आसीत्, अपि तु बङ्गालप्रदेशस्य नवजागरणस्य सांस्कृतिकविरासतायाः अपि महत्वपूर्णप्रतिनिधिः आसीत्। सा तम् “बङ्गालस्य बङ्गालीजनानां च गौरवम्” इति वर्णयित्वा सादरं प्रणामं कृतवती।
मुख्यमन्त्री पुनः लिखितवती यत् पण्डित रवि शंकरस्य सुरलहर्यः भारतीयशास्त्रीयसंगीतं वैश्विकस्तरे नूतनां प्रतिष्ठां प्राप्तुम् अकारयन्।
---------------
हिन्दुस्थान समाचार