Enter your Email Address to subscribe to our newsletters

मण्डीनगरम्, ०७ अप्रैलमासः (हि.स.)। भारतीय-जनता-पक्षस्य हिमाचल-प्रदेशस्य द्विदिवसीया प्रदेश-कार्यसमिति-सभा मण्डी-नगरे आयोजिताभूत्। अस्याः अध्यक्षता प्रदेशाध्यक्षेन डॉ.राजीव-बिंदल-महाशयेन कृता। अस्मिन् अवसरे सः कांग्रेस-सर्वकारं प्रति तीक्ष्णं प्रहारं कृत्वा अवदत् यत् हिमाचल-प्रदेशस्य जनाः अद्य महार्घं, कर-भारः तथा कुशासनस्य कारणेन पूर्णतया पीडिताः सन्ति।
तेन आरोपः कृतः यत् वर्तमान-सर्वकारः जनसेवायाः स्थाने जनानाम् उपरि भारारोपण-नीत्याः अनुसरणं करोति। सः अवदत् यत् प्रदेशे अनवरतं करारोपणेन सामान्य-जनानां स्थितिः अत्यन्तं दुष्करा कृता। विद्युत्-शुल्क-वृद्ध्या बिलानि अत्यधिकानि जातानि, जल-मूल्येषु अपि वृद्धिः अभवत्, एचआरटीसी-यात्रा-भाडानि वर्धितानि, अनेके मार्गाः अपि निरुद्धाः, येन सामान्य-जनानां क्लेशाः वर्धिताः।
डॉ.बिंदल-महाशयेन उक्तं यत् राशन-केन्द्रेषु जनानां पर्याप्तं खाद्यान्नं न लभ्यते, यत् लभ्यते तत् अपि उच्च-मूल्येन प्रदीयते। स्टाम्प-शुल्क-वृद्धिः, सिमेण्ट-मूल्य-वृद्धिः तथा प्रवेश-करः एतेन सामान्य-जनानां, व्यापारिणां, परिवहन-क्षेत्रस्य च उपरि अतिरिक्तः आर्थिक-भारः आरोपितः। तेन आरोपः कृतः यत् सर्वकारेण डीजल-इन्धने पूर्वं १०.४० रूप्यकाणां वैट् आरोपितः, अधुना च प्रति-लीटरं ५ रूप्यकाणां सेस् आरोप्य महार्घता अधिका कृता, यदा केन्द्र-सर्वकारः निरन्तरं शिथिलतां दातुं प्रयतते। सः अवदत्—“एकतः शिथिलता, अपरतः लुण्ठनम्”—एषः एव कांग्रेस-सर्वकारस्य वास्तविकः स्वरूपः।
सः अवदत् यत् प्रदेशे माफिया-राज्यम्, भ्रातृ-भृत्य-वादः (भाई-भतीजावादः) तथा मित्र-वादः च चरम-सीमायाम् अस्ति। बेरोजगार-युवानः, महिलाः, कर्मचारिणः, कृषकाः, उद्यानपालकाः तथा निवृत्त-कर्मचारिणः—सर्वे वर्गाः स्व-स्व-स्तरेण पीडिताः सन्ति। अद्य प्रत्येकं वर्गः क्लिष्टः अस्ति, प्रत्येके गृहे आक्रोशः दृश्यते।
तेन स्पष्टं कृतं यत् भाजपा-प्रदेश-कार्यसमितौ एषः संकल्पः गृहीतः यत् जनतायाः सर्वान् विषयान् मार्गात् विधानसभां पर्यन्तं दृढतया उद्घोषयिष्यामः, सर्वेषां वर्गाणां स्वरः भूत्वा संघर्षं करिष्यामः। डॉ.बिंदल-महाशयेन उक्तम्—एष: कोलाहल: केवलं भाजपाया: नास्ति, अपि तु जनतायाः अस्ति, तथा च भाजपापक्ष: जनतया सह मिलित्वा अस्य जनविरोधिनः कांग्रेस-सर्वकारस्य अपसारणाय प्रतिबद्ध: अस्ति।
अस्यां सभायां मुख्यातिथिरूपेण भाजपा-पक्षस्य राष्ट्रिय-महामन्त्री तरुण-चुग-महाशयः उपस्थितः आसीत्। तेन सह प्रदेश-प्रभारी श्रीकांत-शर्मा, सह-प्रभारी संजय-टंडन, विपक्ष-नेता जयराम-ठाकुर, सांसदाः अनुराग-ठाकुरः, सुरेश-कश्यपः, डॉ. राजीव-भारद्वाजः, हर्ष-महाजनः, पूर्व-प्रदेशाध्यक्षः सतपाल-सत्ती, सुरेश-चन्देलः, सुरेश-भारद्वाजः, महेश्वर-सिंहः, महामन्त्री संजीव-कटवालः, पायल-वैद्य इत्यादयः सर्वे विधायकाः प्रदेश-पदाधिकारिणः च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता