Enter your Email Address to subscribe to our newsletters

—अहिवासी कला वीथिकायां कला प्रेमिणः व छात्राः दृश्य चित्रेषु प्रकाशच्छाययोः ऐंद्रजालिकक्रीड प्रभाविताः
वाराणसी,07 अप्रैलमासः (हि.स.)।उत्तरप्रदेशस्य वाराणसी स्थितस्य काशी हिन्दू विश्वविद्यालय (बीएचयू) दृश्यकलासंकायस्य बी.एफ.ए. प्रथमवर्षस्य त्रिंशत् छात्रछात्राणां स्वीयाः मौलिकाः कलाकृतयः ‘नवसर्जना’ इति प्रदर्शने सहपाठिभिः कला-प्रेमिभिः च प्रशंस्यन्ते।
संकायस्य अहिवासी कलावीथिकायां प्रदर्शिताः एताः कलाकृतयः विद्यार्थिभिः स्वेषां नियमितशैक्षणिककार्याणां असाइनमेंट्-कार्याणां च अतिरिक्तसमयं निष्कास्य निर्मिताः। प्रदर्शनीयाः संयोजकः डॉ. सुरेशचन्द्र जांगिड़ इत्यनेन मंगलवासरे उक्तं यत् ‘नवसर्जना’ इत्यस्य उद्देश्यं नवागन्तुकानां छात्र-कलाकाराणां सृजनशीलतां तथा जलरङ्गमाध्यमेन तेषां कलात्मकाभिव्यक्तिं एकस्मिन् मंचे स्थापयितुम् अस्ति।
यद्यपि एषः कालः एतेषां विद्यार्थिनां शिक्षणस्य नूतनकौशलविकासस्य च अस्ति, तथापि ते कलानिर्माणस्य तकनीकीपक्षेषु गाढां समझं सामर्थ्यं च प्रदर्शितवन्तः। अधिकांशाः छात्राः विशेषतः दृश्यचित्रेषु प्रकाशछाययोः अद्भुतं क्रीडारूपं प्रति आकृष्टाः दृश्यन्ते। केचन छात्राः भारत कला भवन संग्रहालय स्थितानां प्राचीनमूर्तीनां सूक्ष्मविवरणानि स्वकलेन अंकितवन्तः।
अनुपम शर्मा इत्यनेन व्यक्तिचित्रणद्वारा मानवीयभावनाः मनोभावाश्च सुन्दररूपेण प्रदर्शिताः। निरुपम राय इत्यनेन जलरङ्गपरिदृश्यचित्रेषु सूक्ष्मविवरणानि अत्यन्तं कौशलपूर्वकं निर्मितानि। नम्रता पाल इत्यया ‘एण्टीक् अध्ययन’ इत्यनेन प्राचीनतायाः प्रति स्वीयः रुचिः प्रदर्शिता।
अस्मिन् प्रदर्शने अञ्जलि गुप्ता, शौविक, सुमित, पीयूष, सतीश, अञ्जलि विश्वकर्मा, सूरज, शिवाजी, अंकिता, कीर्ति, तनु, श्रेया, आलोक, साक्षी, पूजा, शिवराज, सोनूः, अञ्जलि यादवः, आर्यन, प्रिवेशः, प्रगतिः, सपना, चांदोसाकी, कंचन, अंकित, रवि, हर्ष इत्यादयः प्रतिभाशालिनः छात्राः सहभागीभवन्ति।
डॉ. सुरेशेन उक्तं यत् त्रिदिवसीया एषा प्रदर्शनी गतसोमवासरे उद्घाटिता, यत्र कला-इतिहास-विभागस्य अध्यक्षा प्रो. ज्योति रोहिल्ला राणा, भारत कला भवनस्य उपनिदेशकः डॉ. निशान्तः तथा दृश्यकलासंकायस्य प्रमुखा प्रो. उत्तमा दीक्षित इत्येते उपस्थिताः आसन्।
अस्याः प्रदर्शनीयाः अवलोकनं कलारसिकैः ८ एप्रिल् बुधवासरपर्यन्तं पूर्वाह्णे ११ वादनात् सायं ५ वादनपर्यन्तं अहिवासी कलावीथिकायां कर्तुं शक्यते।
हिन्दुस्थान समाचार