श्री संकट मोचन मंदिरस्य संगीत समारोहे प्रथमबारं साहित्य कार्यक्रमस्यापि शुभारंभम्अकरोत्
—समारोहस्य मंचे लोकगायिकायाः पद्मश्री मालिनी अवस्थिनः पुस्तकं लोकार्पितम् वाराणसी,07 मार्चमासः(हि.स.)।उत्तरप्रदेशस्य धार्मिकनगर्यां वाराणसी स्थिते श्री संकटमोचन मंदिर वार्षिकसंगीतसमारोहे प्रथमवारं साहित्यकार्यक्रमस्य अपि आरम्भः अभवत्। समारोहम् आद
श्री संकट मोचन संगीत समारोह में पुस्तक चंदन किवाड़ के लोकार्पण पर उपस्थित विशिष्ट जन


—समारोहस्य मंचे लोकगायिकायाः पद्मश्री मालिनी अवस्थिनः पुस्तकं लोकार्पितम्

वाराणसी,07 मार्चमासः(हि.स.)।उत्तरप्रदेशस्य धार्मिकनगर्यां वाराणसी स्थिते श्री संकटमोचन मंदिर वार्षिकसंगीतसमारोहे प्रथमवारं साहित्यकार्यक्रमस्य अपि आरम्भः अभवत्।

समारोहम् आद्यरात्रौ सोमवासरे सायंकाले ‘साहित्य-मञ्चे’ मालिनी अवस्थी इत्यस्याः ‘चन्दन किवाड़’ इति पुस्तकस्य लोकार्पणेन साहित्यकार्यक्रमस्य प्रारम्भः कृतः। अस्मिन् मञ्चे संगीत-कला-साहित्ययोः अद्वितीयः संगमः दृष्टः येन संगीत-रसिकाः अपि हृष्टाः अभवन्।

स्वीयाध्यक्षीयभाषणे मन्दिरस्य महन्तः प्रो. विश्वम्भरनाथ मिश्र इत्यनेन उक्तं यत् अत्र पूर्वं संगीतकार्यक्रमः एव भवति स्म, किन्तु साहित्य-मञ्चस्य आरम्भः नूतनप्रयत्नः अस्ति। संगीतस्य कलायाः च सम्यगवगमनाय साहित्यस्य अपि ज्ञानम् आवश्यकम्। अद्य अत्र संगीत-कला-साहित्ययोः संगमः अत्यन्तं विशिष्टः अस्ति यः आगामिषु कालेषु अधिकविस्तारेण आयोजितः भविष्यति।

पुस्तकलोकार्पणानन्तरं मालिनी अवस्थी उक्तवती यत् यदा मया मनसः भावानां लेखनस्य संकल्पः कृतः तदा वाराणसी मम नेत्रयोः पुरतः आसीत्। मया कदापि न चिन्तितं यत् संकटमोचनपरिसरे साहित्यस्य मञ्चः निर्मास्यते तथा साहित्यविषये चर्चा भविष्यति। सा स्वपुस्तकस्य कतिपयानि वाक्यानि पठित्वा तस्याः मूलभावनां प्रकटितवती तथा उक्तवती यत् अस्मिन् पवित्रस्थले स्वपुस्तकस्य चर्चा मम पूर्वजन्मकृतकर्मणां फलम् इव अनुभूयते। भारतीयसंस्कृतिः लोकमङ्गले विश्वासं करोति, यत् वयं कथाभ्यः शिक्षाम् अधिगतवन्तः तत् जीवनस्य सह सम्बद्धं कर्तव्यम्।

मुख्यवक्ता वरिष्ठकविः प्रो. श्रीप्रकाश शुक्ल इत्यनेन उक्तं यत् ‘चन्दन किवाड़’ इति ग्रन्थः केवलं सफलकलाकारस्य न, अपितु सत्यकलाकारस्य स्मृतिकथा अस्ति। अस्य स्वरः बहुविधः अस्ति तथा अस्मिन् कथात्मकलयः दृश्यते यत्र अनेकेषां अनामिकानां स्त्रीणां परिचयः अपि दत्तः अस्ति।

स्वागतभाषणे काशी हिन्दू विश्वविद्यालय न्यूरोचिकित्सकः प्रो. विजयनाथ मिश्र इत्यनेन उक्तं यत् संकटमोचनभगवतः अनुग्रहेण अस्य नूतनकार्यक्रमस्य आरम्भः जातः। युवा कविः रंगकर्मी च व्योमेश शुक्ल इत्यनेन उक्तं यत् अयं अवसरः शुभः अस्ति, यस्य अर्थः एव मालिनी अवस्थी। अस्य युगस्य एषा अद्वितीया कलाकारः वयं तां ‘दीदी’ इति सम्बोधयामः। यत् अप्रियं भवति तस्मिन् अङ्गुलिनिर्देशनं कर्तुं लेखकस्य कर्तव्यं भवति, तत् मालिनी अवस्थी सम्यक् अवगच्छति। सा शास्त्रस्य न्यायालये लोकस्य पक्षं समर्थयति तथा स्वसंस्कृतिं सदा सह वहति। सा करुणायाः कारणानि अन्वेष्टुं प्रयतते।

कार्यक्रमस्य सञ्चालनं डॉ. अमित पाण्डेयेन कृतम् तथा धन्यवादप्रदर्शनं यतीन्द्रनाथ चतुर्वेदिना कृतम्।

हिन्दुस्थान समाचार