मुख्यमंत्री डॉ. यादवः अद्य जबलपुरभ्रमणे , कृषिमंथने सम्मेलिष्यते
कृषि विश्वविद्यालयस्य प्रशासनिक भवनस्य करिष्यति लोकार्पणम् भाेपालम्, 08 अप्रैलमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमंत्री मोहन यादवः अद्य बुधवासरे जबलपुरनगरस्य भ्रमणे भविष्यति। सः अत्र जवाहरलालनेहरूकृषिविश्वविद्यालये आयोजिते “कृषि मन्थन २०२६” कार्यक
मुख्यमंत्री डॉ. यादव


कृषि विश्वविद्यालयस्य प्रशासनिक भवनस्य करिष्यति लोकार्पणम्

भाेपालम्, 08 अप्रैलमासः (हि.स.)।

मध्यप्रदेशस्य मुख्यमंत्री मोहन यादवः अद्य बुधवासरे जबलपुरनगरस्य भ्रमणे भविष्यति। सः अत्र जवाहरलालनेहरूकृषिविश्वविद्यालये आयोजिते “कृषि मन्थन २०२६” कार्यक्रमे सहभागी भविष्यति। कृषि मन्थनकार्यक्रमः विश्वविद्यालयस्य नूतनप्रशासनिकभवने आयोजितः अस्ति। कार्यक्रमस्य आरम्भे मुख्यमंत्री डॉ. यादवः १३ कोटिरूप्यकव्ययेन निर्मितस्य अस्य नूतनप्रशासनिकभवनस्य लोकार्पणं करिष्यति। अस्य भवनस्य नामकरणं भारतरत्न अटल बिहारी वाजपेयी इत्यस्य नाम्ना कृतम्।

जनसम्पर्काधिकारी एम्. एस्. उइके इत्यनेन सूचितं यत् विश्वविद्यालयस्य अस्य नूतनभवनस्य अतिरिक्तं मुख्यमंत्री डॉ. यादवः बोहनीस्थले १.११ कोटिरूप्यकव्ययेन निर्मितस्य ऊखु-अनुसन्धानकेन्द्रस्य प्रशासनिकभवनस्य, बालाघाटनगरे स्थितस्य कृषि विश्वविद्यालयस्य १ कोटिरूप्यकव्ययेन निर्मितस्य कौशलविकासकेन्द्रस्य, तथा जबलपुरे १.२६ कोटिरूप्यकव्ययेन निर्मितस्य स्वचालितद्रवजैवउर्वरक-उत्पादनकेन्द्रस्य च लोकार्पणं करिष्यति। अपि च किसानकल्याणकृषिविकासविभागस्य ४ कोटि ९२ लक्षरूप्यकव्ययेन निर्मितानां चतुर्णां इकाइः अपि उद्घाटयिष्यति।

कृषि मन्थनकार्यक्रमे “कृषककल्याणवर्ष २०२६” अन्तर्गतं राज्यस्तरीयविचारमन्थनकार्यशाला अपि भविष्यति। अस्यां कार्यशालायां तकनीकी, कौशल तथा बाजारसम्बद्धज्ञानस्य एकीकरणं, प्राकृतिककृषेः उन्नयनाय च सहस्रसंख्याकानां कृषिसखीणां प्रशिक्षणस्य शुभारम्भः अपि भविष्यति।

अस्मिन् कार्यक्रमे उपमुख्यमंत्री जगदीश देवड़ा, उपमुख्यमंत्री राजेन्द्र शुक्ल, किसानकल्याणकृषिविकासमन्त्री एदल सिंह कंसाना, लोकनिर्माणमन्त्री राकेश सिंह, पञ्चायतग्रामीणविकासमन्त्री प्रहलाद सिंह पटेल, तथा पशुपालनदुग्धविकासराज्यमन्त्री (स्वतन्त्रप्रभार) लखन पटेल विशिष्टातिथयः भविष्यन्ति। कार्यक्रमस्य अध्यक्षता कुलपतिः डॉ. प्रमोदकुमार मिश्रः करिष्यति।

कृषि मन्थनकार्यक्रमे “जवाहर चारा डिजिटल स्कैनर” तथा “कृषि अनुसंधान ट्रैकिंग एप” इत्ययोः विमोचनं भविष्यति। भारतसरकारेण वित्तपोषितानां १० स्टार्टअप्स प्रति १०८ लक्षरूप्यकाणां स्वीकृतिपत्राणि अपि प्रदास्यन्ते। तदनन्तरं किसानकल्याणकृषिविकासविभागेन, पशुपालनविभागेन, उद्यानिकीविभागेन तथा मत्स्यपालनविभागेन च विभिन्नहितग्राहिभ्यः लाभवितरणं क्रियते।

“डॉ. भीमराव अम्बेडकर कामधेनु योजना” अन्तर्गतं लाभप्राप्तानां पशुपालकानां कृते १ कोटि ३ लक्ष ३५ सहस्ररूप्यकपरिमाणस्य लाभवितरणं अपि करिष्यति। कृषि मन्थनकार्यक्रमात् अनन्तरं मुख्यमंत्री डॉ. यादवः मानस-भवने कार्यकर्तृसम्मेलनं सम्बोधयिष्यति, तथा भटौलीस्थितां साकेतवाटिकां अपि गमिष्यति।

---------------

हिन्दुस्थान समाचार