Enter your Email Address to subscribe to our newsletters


नवदिल्ली, 08 अप्रैलमासः (हि.स.)।दिल्ली-राज्यस्य मुख्यमन्त्री रेखा गुप्ता अद्य आईटीओ-स्थितं स्टेट्-जीएसटी-कार्यालयं आकस्मिक-निरीक्षणेन अवलोक्य व्यवस्थायाः विस्तृतं परीक्षणं कृतवती। तया अधिकारीभ्यः कर्मचारिभ्यः च सह संवादं कृत्वा कार्यप्रणाल्याः समीक्षा अपि कृता।
मुख्यमन्त्री सामाजिक-माध्यमे स्वस्य लेखे उक्तवती यत् स्टेट्-जीएसटी-कार्यालये समयबद्धता, स्वच्छता, सुव्यवस्थित-कार्यसंस्कृतिश्च सुनिश्चितुं स्पष्ट-निर्देशाः दत्ताः। तया उक्तं यत् असावधानता, विलम्बः, अनावश्यक-जटिलता वा कस्यापि स्थानं न भविष्यति।
मुख्यमन्त्री उक्तवती यत् व्यापारः दिल्ली-अर्थव्यवस्थायाः मेरुदण्डः अस्ति। अस्माकं प्राथमिकता एषा अस्ति यत् सर्वाः प्रक्रियाः सरलाः, पारदर्शिन्यः, सुगमाश्च भवन्तु, येन व्यापारी निर्बाधया स्वकार्ये ध्यानं केन्द्रितुं शक्नुयुः।
तया अपि उक्तं यत् दिल्ली सर्वकारः सर्वेषु विभागेषु उत्तरदायित्वं सुनिश्चित्य जनतायै व्यापारिभ्यश्च सहजं सरलम् विश्वसनीयञ्च व्यवस्थां प्रदातुं प्रतिबद्धा अस्ति।
---------------
हिन्दुस्थान समाचार