Enter your Email Address to subscribe to our newsletters



पटनानगरम्, ०८ अप्रैलमासः (हि.स.)। मुख्यमन्त्री नीतीश-कुमारः अद्य शास्त्रीनगर-स्थिते ऊर्जा-ऑडिटोरियम्-भवने ४९५४ नवनियुक्ताभ्यः महिला-स्वास्थ्य-कार्यकर्त्रीभ्यः (एएनएम) नियुक्ति-पत्राणि प्रदत्तवान्।
अस्मिन् अवसरे मुख्यमन्त्री सांकेतिक-रूपेण विनीता-कुमारी, स्वाति-कुमारी, रौशनी-कुमारी इत्येताभ्यः नियुक्ति-पत्राणि प्रदत्तवान्।
मुख्यमन्त्री नवनियुक्ताः एएनएम-कार्यकर्त्र्यः अभिनन्द्य शुभाशंसाः दत्त्वा उक्तवान् यत् मम विश्वासः अस्ति यत् सर्वाः नवनियुक्ताः कर्मिण्यः पूर्ण-सत्य-निष्ठाभ्यां स्वकर्तव्य-निर्वहनं करिष्यन्ति।कार्यक्रमे उपमुख्यमन्त्री सम्राट-चौधरी, उपमुख्यमन्त्री विजय-कुमार-सिन्हा, जल-संसाधन-संसदीय-कार्य-मन्त्री विजय-कुमार-चौधरी, स्वास्थ्य-मन्त्री मंगल-पाण्डेयः, मुख्यमन्त्रिणः प्रधान-सचिवः दीपक-कुमारः, स्वास्थ्य-विभागस्य सचिवः लोकेश-कुमार-सिंहः, मुख्यमन्त्रिणः सचिवः डॉ.चन्द्रशेखर-सिंहः, बिहार-स्वास्थ्य-सेवाः-आधारभूत-संरचना-निगम-लिमिटेड्-प्रबन्ध-निदेशकः अमित-कुमार-पाण्डेयः, जनपदाधिकारी डॉ.त्यागराजन-एस.एम., वरिष्ठ-आरक्षक-अधीक्षकः कार्तिकेय-के-शर्मा इत्यादयः अन्ये वरिष्ठ-अधिकारिणः नियुक्ति-पत्र-प्राप्ताः एएनएम-कार्यकर्त्र्यः च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता