Enter your Email Address to subscribe to our newsletters

पूर्व बर्धमानम्, 08 अप्रैलमासः (हि. स.)।पूर्वस्थलीदक्षिणविधानसभाक्षेत्रे बुधवासरे प्रातःकालात् एव उत्सवस्य वातावरणं निर्मितम्। नामांकनपत्रस्य समर्पणात् पूर्वं तृणमूलकांग्रेसदलस्य प्रत्याशी स्वपनदेवनाथः धार्मिकानुष्ठानैः सह दिवसस्य आरम्भं कृतवान्। प्रातः लगभग सप्तवादने सः स्वपत्नीसमेतः क्षेत्रस्य अनेकमन्दिरेषु पूजाअर्चनां कृत्वा आशीर्वादं प्राप्तवान्।
पूजायाः समाप्तेः अनन्तरं सः विद्यानगरस्थितस्य स्वगृहस्य पुरतः मुक्तवाहने उपविष्टः सन् कालना-उपमण्डलाधिकारीकार्यालयस्य दिशि प्रस्थितः। अस्य यात्रायाः विषये समर्थकेषु महान् उत्साहः दृष्टः। विविधवाद्ययन्त्राणां निनादेन शोभायात्रया सह जुलूसः अग्रे सरति स्म, येन सम्पूर्णे क्षेत्रे उत्सवमयः वातावरणः अभवत्।
न केवलं राजनैतिकसमर्थकाः, अपि तु सर्वधर्मसमन्वयस्य सन्देशं दातुं विभिन्नसमुदायानां जनानाम् अपि उपस्थितिः दृष्टा। स्वपनदेवनाथः नामांकनपत्रं समर्प्य उक्तवान् यत् विकासस्य शान्तेः च मार्गेण एव वयं क्षेत्रं अग्रे नेष्यामः।
---------------
हिन्दुस्थान समाचार