Enter your Email Address to subscribe to our newsletters

धमतरी-जनपदः, ०८ अप्रैलमासः (हि.स.)। औद्योगिक-आपदाभ्यः प्रभावी-रूपेण समापितुं राज्य-स्तरे विशेष-प्रशिक्षण-कार्यक्रमाणां शृङ्खला प्रवर्तमाना अस्ति। अस्याः एव शृङ्खलायाः अन्तर्गतं १० अप्रैलमासे राज्य-स्तरीयम् औद्योगिक-आपदा-प्रशिक्षणम् आयोजितं भविष्यति, यस्मिन् जनपदस्य अधिकारिणः सम्बन्धित-संस्था: च सहभागं करिष्यन्ति। एतत् प्रशिक्षणं उपायुक्त-कार्यालये स्थिते स्वान-वीडियो-कॉन्फरेन्सिङ्-कक्षे अपराह्णे २:३० वादनात् सायं ४:३० वादनपर्यन्तं आयोजितं भविष्यति।
एषः कार्यक्रमः राष्ट्रीय-आपदा-प्रबन्धन-प्राधिकरणस्य, नव-दिल्ली-स्थितस्य निर्देशानुसारं सम्पन्नः भविष्यति। उपायुक्त: अबिनाश-मिश्रः सर्वान् सम्बन्धित-विभागानां अधिकारिणः प्रशिक्षणे अनिवार्यतया सहभागी-भवितुं निर्देशं दत्तवान्, येन आपदाकाले त्वरित-संयोजित-कार्यवाही सुनिश्चिता भवेत्।
प्रशिक्षण-समये औद्योगिक-आपदा-स्थितौ त्वरित-प्रतिक्रिया, राहत-उद्धार-कार्याणां रणनीतिः, संसाधनानां प्रभावी-उपयोगः, विभागीय-समन्वयः इत्यादिषु महत्त्वपूर्ण-विषयेषु विस्तरेण जानकारी प्रदास्यते। अस्य उपक्रमस्य उद्देश्यं प्रशासनिक-तन्त्रं अधिकं सक्षमं सजगं च कर्तुम् अस्ति, येन कस्यापि संभावित-औद्योगिक-आपदायाः स्थितौ प्रभावी-रीत्या सम्मुखं कर्तुं शक्येत तथा जनहानिः च न्यूनतमा क्रियेत।
हिन्दुस्थान समाचार / अंशु गुप्ता