Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०८ अप्रैलमासः (हि.स.)। भारतीय-जनता-पार्टी-दिल्ली-प्रदेश-अध्यक्षस्य वीरेन्द्र-सचदेवायाः ९४ वर्षीयः पिता श्याम-लाल-सचदेवा मंगलवासरे एम्स-चिकित्सालये चिकित्साकाले दिवंगतः। बुधवासरे प्रातःकाले तस्य अन्त्येष्टिसंस्कारः निगमबोध-घट्टे राजकीय-सामाजिक-सम्मानेन सम्पन्ना।अन्त्येष्टिं तस्य पञ्च पुत्राः कृतवन्तः। अस्मिन् अवसरे उपराज्यपालः तरणजीत-सिंह-सन्धू, मुख्यमन्त्री रेखा-गुप्ता, केन्द्रीय-राज्यमन्त्री हर्ष-मल्होत्रा, विधानसभा-अध्यक्षः विजेन्द्र-गुप्ता, मन्त्री मनजिन्दर-सिंह-सिरसा, रविन्द्र-इन्द्राजः, महापौरः राजा-इकबाल-सिंहः तथा अनेके वरिष्ठ-नेतारः, सांसदः, विधायकाः, पार्षदाः सहस्रशः कार्यकर्तारश्च उपस्थिताः आसन्।
मनोज-तिवारी, रामवीर-सिंह-बिधूड़ी, कमलजीत-सहरावतः, बांसुरी-स्वराजः, विजय-गोयलः, रमेश-बिधूड़ी, विनय-सहस्रबुद्धे इत्यादयः अपि श्रद्धाञ्जलिं अर्पितवन्तः। आरएसएस, विश्व-हिन्दू-परिषद्-आदिनां सामाजिक-सङ्घटनानां प्रतिनिधयः, दिल्ली-आरक्षक-प्रशासन-अधिकारिणः च पुष्पाञ्जलिं समर्पितवन्तः।
मुख्यमन्त्री रेखा-गुप्ता उक्तवती यत् श्याम-लाल-सचदेवा कठिन-परिस्थितिषु अपि सादगी-परिश्रमेण परिवारस्य पालनं कृत्वा समाज-सेवायाः संस्कारान् अयच्छत्, तेषामेव मूल्यानां परिणामस्वरूपं तस्य पुत्रः वीरेन्द्र-सचदेवा अधुना प्रदेश-अध्यक्षरूपेण सेवां करोति।
हिन्दुस्थान समाचार / अंशु गुप्ता