Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 09 अप्रैलमासः (हि.स.)।
असम-राज्य-विधानसभा-निर्वाचनम् २०२६ कृते अद्य प्रातः ७ वादने मतदानम् आरब्धम्। अस्मिन् लोकतन्त्रस्य महापर्वणि सर्वेभ्यः जनान् सहभागितायै आमन्त्रणं दत्तवान् मुख्यमन्त्री डॉ. हिमंत बिस्व सरमा।
मुख्यमन्त्री सामाजिक-माध्यमे सन्देशं प्रकाशितवान् यत्— अद्य लोकतन्त्रस्य महापर्वणि सर्वेभ्यः हार्दिकाः शुभाशयाः। असम-विधानसभा-निर्वाचनम् २०२६ इत्यस्य दिने प्रत्येकः नागरिकः विश्वस्य विशालतमस्य लोकतन्त्रस्य नागरिकत्वस्य अधिकारस्य उत्सवं आचरितुमर्हति। सुदृढ-समृद्ध-असम-निर्माणाय प्रत्येकस्य नागरिकस्य एकस्य मतस्य अपि महत्त्वं विद्यते।
प्रथमवारं मतदानं कर्तुं गच्छन्तीं युवपीढीं अभिनन्द्य मुख्यमन्त्री लोकतन्त्रस्य सुदृढ-अङ्गं भवितुं प्रार्थितवान्। सः अपि अवदत् यत् स्वयम् मतदानं कुर्वन्तु तथा अन्यान् अपि मतदानाय प्रेरयन्तु।
हिन्दुस्थान समाचार