Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 09 अप्रैलमासः(हि.स.)। असम् विधानसभायाः निर्वाचनम् २०२६ कृते अद्य प्रातः ७ वादनात् आरभ्य राज्यस्य १२६ विधानसभाक्षेत्रेषु मतदानप्रक्रिया प्रवर्तते। निर्वाचनायोगेन प्रदत्ताङ्कानुसारं प्रातः ७ वादनात् ९ वादनपर्यन्तं राज्ये १७.८७ प्रतिशतं मतदानं अभिलेखितम् अस्ति।
उल्लेखनीयम् यत् १६तम असम् विधानसभायाः कृते ७२२ अभ्यर्थिनां भाग्यनिर्णयः राज्यस्य अधिकं ढ़ाई कोटि मतदातृभिः क्रियते। एतेषु ६६३ पुरुष अभ्यर्थिनः सन्ति, ५९ च महिला अभ्यर्थिनः सन्ति।
दलेषु भारतीय राष्ट्रीय कांग्रेस इत्यनेन सर्वाधिकं ९९ आसनेषु, तथा भारतीय जनता पार्टी इत्यनेन ९० आसनेषु स्वीयाः अभ्यर्थिनः प्रत्याशिताः।
उल्लेखनीयम् यत् असमस्य १२६ विधानसभाक्षेत्रेषु कुलं मतदातॄणां संख्या २,५०,२१,४१३ अस्ति। एतेषु १,२५,१६,५९१ पुरुषमतदातारः, १,२५,०४,५०१ महिलामतदातारः, तथा ३२१ तृतीयलिङ्गमतदातारः सन्ति।
जिलानुसारं मतदानप्रतिशताः निम्नप्रकारेण सन्ति—
बजाली – १७.४०बाक्सा – १६.३५बरपेटा – १६.५६बिश्वनाथ – ४८.४२बंगाईगांव – १८.२३कछार – १८.०८चराईदेव – १८.८८चिराङ्ग – १६.६५दरङ्ग – १९.७४धेेमाजी – १७.२९धुबड़ी – १८.१६डिब्रूगढ़ – १७.८८डिमा हसाओ – १७.३१ग्वालपाड़ा – १९.६६गोलाघाट – १८.५८हैलाकांदी – १६.६०होजाई – १९.०६जोरहाट – १९.०१कामरूप – १५.३६कामरूप (अन्य) – १८.८०कार्बी आंगलोंग – १५.६०कोकराझार – १६.२६लखीमपुर – १७.३८माजुली – २०.०३मोरीगांव – १९.९६नगांव – १८.३८नलबारी – १६.२६शिवसागर – १८.३६शोणितपुर – १८.६८दक्षिण सालमारा मानकाचर – १८.६५श्रीभूमि – १८.३८तामुलपुर – १५.३२तिनसुकिया – १७.७५उदालगुड़ी – १७.३५
हिन्दुस्थान समाचार