कृषि विश्वविद्यालयः – शोधकार्यशालायां वैज्ञानिकचिन्तनस्य तथा शैक्षणिक-उत्कृष्टतायाः संवर्धने बलं दत्तम्
झांसी, 09 अप्रैलमासः (हि.स.)। रानी लक्ष्मीबाई केन्द्रीय-कृषि-विश्वविद्यालये गुरुवासरे त्रिदिवसीयकार्यशालायाः “क्वेस्ट ऑफ एक्सीलेंस: टुवर्ड्स साइंटिफिक एण्ड रिसर्च पर्स्यूट्स” इत्यस्याः भव्यः शुभारम्भः जातः। १० एप्रिल दिनाङ्कपर्यन्तं प्रचलन्त्याः अस
कार्यशाला में शिरकत करते विद्वतजन


झांसी, 09 अप्रैलमासः (हि.स.)। रानी लक्ष्मीबाई केन्द्रीय-कृषि-विश्वविद्यालये गुरुवासरे त्रिदिवसीयकार्यशालायाः “क्वेस्ट ऑफ एक्सीलेंस: टुवर्ड्स साइंटिफिक एण्ड रिसर्च पर्स्यूट्स” इत्यस्याः भव्यः शुभारम्भः जातः। १० एप्रिल दिनाङ्कपर्यन्तं प्रचलन्त्याः अस्याः कार्यशालायाः उद्देश्यं वैज्ञानिकचिन्तनं, शोधकौशलं तथा च उच्चशिक्षायाः गुणवत्तां प्रति नूतनां दिशां प्रदानं वर्तते।

कार्यक्रमस्य शुभारम्भः कुलपति-अशोक कुमार सिंहस्य मार्गदर्शने दीपप्रज्वलनेन कुलगीतेन च अभवत्। ततः परं प्रतिभागिनः सामूहिकरूपेण 'वन्दे मातरम्' इति गीतवन्तः। कार्यशालायाः मार्गदर्शकः (लीडर) डॉ. नागेन्द्र प्रताप सिंहः अवदत् यत् उत्कृष्टता निरन्तरप्रयासैः प्राप्यते। सः प्रतिभागिनः शोधक्षेत्रे उच्चशिक्षाक्षेत्रे च नूतनोन्नतिं प्राप्तुं प्रेरितवान्।

प्रसारशिक्षा-निदेशकः डॉ. सुशील कुमार सिंहः कृषि-अनुसन्धानस्य नवाचारस्य च भूमिकां स्पष्टयन् अवदत् यत् ईदृशाः आयोजनाः गुणवत्ता-संवर्धने सहायकाः भवन्ति। शिक्षा-निदेशकः डॉ. अनिल कुमारः एतत् शैक्षणिक-विकासायेकं महत्त्वपूर्णं पदं वर्णितवान्, प्रतिभागिभ्यः सक्रिय-सहभागितायै आह्वानं च कृतवान्।

उद्घाटनसत्रस्य अनन्तरं प्राविधिकसत्राणाम् (Technical Sessions) आरम्भः अभवत्, येषु वैज्ञानिकलेखनस्य, शोधपद्धतेः, नवाचारस्य तथा च कृषिक्षेत्रस्य आव्हानानां विषये विशेषज्ञैः प्रशिक्षणं दीयते। अस्मिन् कार्यक्रमे शिक्षकाः, वैज्ञानिकाः शोधार्थिनः च विशालायां संख्यायां सम्मिलिताः आसन्। कार्यक्रमस्य सञ्चालनं डॉ. अर्तिका सिंह महोदयया कृतम्, अन्ते च धन्यवादज्ञापनं प्रस्तुतम्।

---------------

हिन्दुस्थान समाचार