Enter your Email Address to subscribe to our newsletters

अम्बिकापुरम्, ०९ अप्रैलमासः (हि.स.)। छत्तीसगढ-राज्यस्य मुख्यमन्त्री विष्णुदेव-सायः गुरुवासरे सरगुजा-जनपदस्य प्रवासः बहुषु अर्थेषु महत्त्वपूर्णः अभवत्। लुण्ड्रा-विधानसभा-क्षेत्रे आयोजिते कृषक-सम्मेलने सहभागी भूत्वा मुख्यमन्त्री कृषकान् सम्मानितवान्, क्षेत्रस्य विकासाय च अनेकाः महत्त्वपूर्णाः घोषणाः अकुरुत। छत्रपति-शिवाजी-प्रांगणे आयोजिते अस्मिन् कार्यक्रमे १५ उन्नत-कृषकाः मंचे सम्मानिताः, तथा च मुख्यमन्त्रिणा समग्रतः २८१.९५-कोटि-रूप्यक-मूल्येन ५१ विकास-कार्याणां लोकार्पणं भूमिपूजनं च कृत्वा सरगुजा-क्षेत्राय महान् उपहार: दत्त:। एताभिः परियोजनाभिः क्षेत्रे आधारभूत-संरचनायाः, सिंचन-सुविधानां तथा जनोपयोगी-सेवानां विस्तारः भविष्यति।
मुख्यमन्त्री सायः स्वस्य सम्बोधने लुण्ड्रा-क्षेत्रस्य दीर्घकालीन-आवश्यकतानां पूर्तिं कुर्वन् भव्य-प्रांगण-निर्माणम्, नूतन-विश्रामगृहस्य स्थापना, कृषकाणां कृते उप-कृषि-विपणस्य स्थापना, तथा लुण्ड्रा-धौरपुरमार्गेण सन्ना (जशपुर) पर्यन्तं मार्ग-निर्माणस्य अनुमोदनं घोषयामास। अनेन मार्ग-परियोजनया सरगुजा-जशपुर-जनपदयोः मध्ये सम्पर्कः अधिकं सुदृढः भविष्यति।
प्रवासस्य समये मुख्यमन्त्री अम्बिकापुरम् अपि आगच्छत्, यत्र सः नगर-निगम-क्षेत्रस्य द्वयोः प्रमुख-चतुष्पथयोः स्थापितयोः शहीद-चन्द्रशेखर-आजादस्य तथा भाजपा-वरिष्ठ-नेता स्वर्गीय-रविशंकर-त्रिपाठिन: प्रतिमयोः अनावरणं कृतवान्। अस्मिन् अवसरे सः एतत् नगरस्य ऐतिहासिकं दिनम् इति उक्त्वा अवदत् यत् दीर्घकालात् क्रियमाणा अपेक्षा अद्य पूर्णा जाता। सः अपि अवदत् यत् रविशंकर-त्रिपाठी इव समर्पित-नेतुः प्रतिमा अग्रिम-वंशानां प्रेरणां मार्गदर्शनं च दास्यति।
मुख्यमन्त्री त्रिपाठी राजनैतिक-योगदानं स्मृत्वा अवदत् यत् सः भारतीय-जनता-पक्षस्य महत्त्वपूर्णः स्तम्भः आसीत्, संगठनस्य सुदृढीकरणे च तस्य महती भूमिका आसीत्। वर्षे २०१० तमे रायगढं प्रति गच्छन् सः मार्ग-दुर्घटनायां निधनं प्राप्तवान्। तस्य पुण्यतिथौ प्रतिमाया अनावरणेन तस्मै श्रद्धाञ्जलिः अर्पिता।
अस्मिन् अवसरे कृषि-मन्त्री रामविचार-नेतामः, पर्यटन-मन्त्री राजेश-अग्रवालः, वरिष्ठ-भाजपा-नेता प्रेमप्रकाश-पाण्डेयः, नारायण-चन्देलः इत्यादयः अनेके जनप्रतिनिधयः अधिकारिणः च उपस्थिताः आसन्। मुख्यमन्त्रिणः अस्य प्रवासेन सरगुजा-क्षेत्रे विकासस्य नूतना गतिर्भविष्यति इति आशा व्यक्ता।
हिन्दुस्थान समाचार / अंशु गुप्ता