Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 09 अप्रैलमासः (हि.स.)।
दिल्ली-नगरस्य उपराज्यपालः तरनजीतसिंहसन्धू तथा मुख्यमंत्री रेखा गुप्ता गुरुवासरे गुरु गोबिंद सिंह इंद्रप्रस्थ विश्वविद्यालयस्य अष्टादशे दीक्षांतसमारोहे सम्मिलितौ। अस्मिन् अवसरि कुलपतिः डॉ महेश वर्मा अपि उपस्थितः आसीत्।
उपराज्यपालः दीक्षांतसमारोहं सम्बोधयन् अवदत् यत् विद्यार्थिनां परिश्रमः जिज्ञासा समर्पणं च तान् अद्य अस्मिन् स्थाने स्थापयति। तेन उक्तं यत् अस्मिन् शीघ्रपरिवर्तनशील-प्रौद्योगिकी-युगे स्नातकाः केवलं उपाधौ न तिष्ठेयुः, किन्तु अधिगमस्य अनुकूलनशीलतायाः नवाचारस्य च आजीवनयात्रां स्वीकरोतु। सः अपि अवदत् यत् अद्यतनजगतः समस्यासमाधानकर्तॄणां आवश्यकता अस्ति। विद्यार्थिनः नरेंद्रमोदिनो विकसितभारतस्य तथा विकसितदिल्ली इत्यस्य दृष्टिकोणे सार्थकं योगदानं दातुं सज्जाः भवेयुः।
उपराज्यपालः अपि अवदत् यत् युवानः गुरु गोविंद सिंहस्य शिक्षाभ्यः प्रेरणां गृह्णन्तः सत्यनिष्ठया सेवाभावेन च सह नवाचारस्य उदाहरणं प्रस्तुयेयुः।
मुख्यमंत्री अपि अत्र पदकं उपाधिं च प्राप्तवन्तः विद्यार्थिनः अभिनन्दितवती। सा समारोहं सम्बोधयन्ती अवदत् यत् सर्वे विद्यार्थी “विकसित भारत” इत्यस्य संकल्पं अग्रे नेतुं शक्तयः सन्ति। तेषां सफलता एव राष्ट्रस्य सफलतां नूतन-उच्चतां प्रति नयिष्यति।
मुख्यमंत्री अवदत् यत् नरेन्द्र मोदिनो मार्गदर्शनेन दिल्ली-नगरस्य शिक्षाव्यवस्थायां नवानि परिवर्तनानि शीघ्रं प्रवर्तन्ते। सा अवदत् यत् अद्य दिल्ली-नगरस्य शिक्षाराजस्वं 19326 कोटि-रुप्यकपर्यन्तं वर्धितम् अस्ति। विद्यालयाः उत्तमाः भवन्ति, कक्षाः आधुनिकाः क्रियन्ते, छात्रेभ्यः च नूतन-प्रौद्योगिक्या सह अध्ययनस्य अवसराः प्रदीयन्ते।
मुख्यमंत्री अवदत् यत् अस्माकं युवभ्यः या शिक्षा आवश्यकाः या सुविधाः अपेक्षिताः, तासु एव अस्माकं शासनं केन्द्रितं भवति।
---------------
हिन्दुस्थान समाचार