औरैया-जनपदे जनपद-होमगार्ड्-कार्यालयस्य शिलान्यासः
औरैया, ०९ अप्रैलमासः (हि.स.)। उत्तरप्रदेश-राज्ये औरैया-जनपदे ग्राम-सेहुदे ४.११ कोटि रूप्यकं मूल्यस्य जनटद-कमान्डेन्ट् होमगार्ड् कार्यालयस्य भूमि पूजनं शिलान्यासः च राज्य-मन्त्री धर्मवीर-प्रजापतिद्वारा कृतः। राज्य-मन्त्री अवदत् यत् प्रदेशसर्वकार: ह
फोटो, भूमि पूजन करते हुए (स्वतंत्र प्रभार) मंत्री  धर्मवीर प्रजापति


औरैया, ०९ अप्रैलमासः (हि.स.)। उत्तरप्रदेश-राज्ये औरैया-जनपदे ग्राम-सेहुदे ४.११ कोटि रूप्यकं मूल्यस्य जनटद-कमान्डेन्ट् होमगार्ड् कार्यालयस्य भूमि पूजनं शिलान्यासः च राज्य-मन्त्री धर्मवीर-प्रजापतिद्वारा कृतः।

राज्य-मन्त्री अवदत् यत् प्रदेशसर्वकार: होमगार्ड्-विभागे ऐतिहासिकं परिवर्तनं करोति, सैनिकानां जीवन-स्तरम् उन्नेतुं पगा: उद्यमिताः, ७५ जनपदेषु कार्यालयानां निर्माणं प्रवृत्तम्, तथा प्रथमवारं ४४,००० होमगार्ड्-सैनिकानां निष्पक्षनियुक्ति: क्रियते। वर्तमान-कालिनं वेतनं, प्रशिक्षण-भत्ता, कार्य-भत्ता च उन्नताः।

सदर-विधायकः गुड़िया-कठेरिया, जनपदाधिकारी डॉ.इन्द्रमणि-त्रिपाठीः च कार्यक्रमे उपस्थितौ। आरक्षक-अधीक्षकः अभिषेक-भारती अवदत् यत् सैनिकिनां स्थानीय-ज्ञानं न्याय-व्यवस्था-रक्षणे सहायकरूपेण उपयुज्यते। कार्यक्रमान्ते शिलापट्टस्य अनावरणं तथा पादपारोपणं अपि अभवत्।

हिन्दुस्थान समाचार / अंशु गुप्ता