वर्षाकालात् पूर्वं नालिकानां स्वच्छतायाः लक्ष्यं, सर्वे विभागाः समन्वयेन कार्यं कुर्वन्तु - रेखा-गुप्ता
नवदिल्ली, ०९ अप्रैलमासः (हि.स.)। मुख्यमन्त्री रेखा-गुप्ता दिल्ली-सचिवालये आयोजितायां उच्च-स्तरीय-समीक्षा-सभायां जलभराव-निवारणाय विभागान् समन्वयेन कार्यं कर्तुं निर्देशितवती। तया नालिकानां पंक-निर्मोचन-कार्यं ३० जूनपर्यन्तं सम्पन्नं कर्तुम् आदेशः दत
दिल्ली सचिवालय में मानसून को लेकर समीक्षा बैठक करती मुख्यमंत्री रेखा गुप्ता


नवदिल्ली, ०९ अप्रैलमासः (हि.स.)। मुख्यमन्त्री रेखा-गुप्ता दिल्ली-सचिवालये आयोजितायां उच्च-स्तरीय-समीक्षा-सभायां जलभराव-निवारणाय विभागान् समन्वयेन कार्यं कर्तुं निर्देशितवती। तया नालिकानां पंक-निर्मोचन-कार्यं ३० जूनपर्यन्तं सम्पन्नं कर्तुम् आदेशः दत्तः तथा जलपूरण-स्थलेषु विशेष-व्यवस्थायाः अपि आग्रहः कृतः।

सा अवदत् यत् विभागानां समन्वयेन वर्षा-समये जलपूरणं न्यूनं कर्तुं शक्यते। आधुनिक-यन्त्राणां उपयोगः आवश्यकः इति अपि निर्दिष्टम्। अधिकारिणः वर्षाकाले सततं सम्पर्के स्युः इति निर्देशः दत्तः।

मुख्यमन्त्रिणा उक्तं यत् ड्रेनेज-मास्टर-योजना शीघ्रं कार्यान्वितव्या, येन जल-निर्गमनाय पम्प-इत्यादिनां न्यूनतमः उपयोगः आवश्यकः भवेत्।

हिन्दुस्थान समाचार / अंशु गुप्ता