भारतदेशं मक्का-अनुसन्धान-विकासयोः वैश्विक-केन्द्रं कुर्युः वैज्ञानिकाः : डॉ.एम.एल.जाट:
राँचीनगरम्, ०९ अप्रैलमासः (हि.स.)। भारतीय-कृषि-अनुसन्धान-परिषदः (आईसीएआर) महानिदेशकः तथा कृषि-अनुसन्धान-शिक्षा-विभागस्य सचिवः डॉ.मांगीलाल-जाट: भारतं मक्का-अनुसन्धान-विकास-नवाचारयोः वैश्विक-केन्द्रं कर्तुं वैज्ञानिकान् प्रति दृढ-प्रयत्नान् कर्तुं आह
कार्यक्रम की तस्वीर


कार्यक्रम में मौजूद कृषि वैज्ञानिक


राँचीनगरम्, ०९ अप्रैलमासः (हि.स.)। भारतीय-कृषि-अनुसन्धान-परिषदः (आईसीएआर) महानिदेशकः तथा कृषि-अनुसन्धान-शिक्षा-विभागस्य सचिवः डॉ.मांगीलाल-जाट: भारतं मक्का-अनुसन्धान-विकास-नवाचारयोः वैश्विक-केन्द्रं कर्तुं वैज्ञानिकान् प्रति दृढ-प्रयत्नान् कर्तुं आह्वानं कृतवान्। तेन उत्तम-डेटा-इको-सिस्टम-इत्यस्य निर्माणे, विभिन्न-अनुसन्धान-संस्थानानां मध्ये समन्वयस्य सुदृढीकरणे तथा सार्वजनिक-निजी-सहभागितायाः प्रोत्साहने च विशेष-बलं दत्तम्।

डॉ.जाट: गुरुवासरे बिरसा-कृषि-विश्वविद्यालये आयोजितायां मक्का-आधारित-अखिल-भारतीय-समन्वित-अनुसन्धान-परियोजनायाः ६९तमायां वार्षिक-कार्यशालायां सम्बोधितवान्। सः उक्तवान् यत् विवरणानां व्यवस्थित-रीत्या सङ्कलनं कृत्वा तेषां उपयोगः केवलं विश्लेषणाय न, अपि तु सटीक-पूर्वानुमानाय अपि करणीयः।

तेन सीमित-पोषक-तत्त्व-संसाधनानां उल्लेखं कृत्वा उक्तं यत् तादृशानां मक्का-प्रभेदानां विकासे ध्यानं दातव्यं, ये अल्प-संसाधनेषु अपि अधिकं उत्पादनं दातुं समर्थाः स्युः। सहैव वैज्ञानिकानां प्रशिक्षणस्य अन्तरराष्ट्रीय-स्तरे प्रोत्साहनाय तान् देश-विदेशयोः श्रेष्ठ-प्रयोगशालासु प्रेषयितुं बलं दत्तम्।

आईसीएआरस्य उप-महानिदेशकः (फसल-विज्ञानम्) डॉ.डी.के.यादवः अस्मिन् अवसरे अवदत् यत् देशे मक्का-उत्पादकता २०१४-१५ वर्षे २५६७ किलोग्राम प्रति हेक्टेयर: आसीत्, या २०२४-२५ वर्षे ३५९० किलोग्राम प्रति हेक्टेयर पर्यन्तं वर्धिता अस्ति। तेन २०३०-३१ वर्षपर्यन्तं अस्याः ४१०० किलोग्राम प्रति हेक्टेयर पर्यन्तं वृद्धेः लक्ष्यं निर्धारितम्, तथापि वैश्विक-प्रतिशतं ६००० किलोग्राम प्रति हेक्टेयर इत्यस्मात् एषा अद्यापि न्यूनास्ति।

कार्यक्रमे बिरसा-कृषि-विश्वविद्यालयस्य कुलपतिः डॉ.एस.सी.दुबे उक्तवान् यत् झारखण्ड-बिहार-प्रदेशयोः मक्का-उत्पादनस्य वर्धने अपाराः सम्भावनाः सन्ति। तेन उक्तं यत् झारखण्डे वर्तमान-उत्पादकता २.४ टन प्रति हेक्टेयर अस्ति, या राष्ट्रिय-प्रतिशतं ३.५ टन इत्यस्मात् न्यूनास्ति। तेन उच्च-प्रोटीन-युक्तानां जातिनां विकासे, रोग-कीट-नियन्त्रणे तथा बीज-उत्पादने निजी-क्षेत्रस्य सहभागितायाः वर्धने च बलं दत्तम्।

आईसीएआरस्य सहायक-महानिदेशकः (खाद्य-चारा-फसलाः) डॉ.एस.के.प्रधानः उक्तवान् यत् विश्वे अन्न-उत्पादने मक्का प्रथम-स्थानं धारयति। नवीन-विवरणानुसारं विश्वे मक्का-उत्पादनं १२९९ मिलियन-टन, गोधूमः ७४० मिलियन-टन, तण्डुलं ५४० मिलियन-टन च अस्ति।भारतीय-मक्का-अनुसन्धान-संस्थानस्य निदेशकः डॉ.एच.एस.जाट: स्वागत-भाषणे अवदत् यत् देशे उपयुज्यमानस्य एथनॉलस्य प्रायः ४० प्रतिशतं भागः मक्का-आधारितः अस्ति।

अस्यां कार्यशालायां देशस्य ३७ कृषि-विश्वविद्यालयानां तथा आईसीएआर-संस्थानानां २५० अधिकाः वैज्ञानिकाः सहभागिन: अभवन्। अस्मिन् अवसरे नवाचार-आधारित-कृषेः प्रोत्साहनार्थं चोरेया (चान्हो) ग्रामस्य कृषकः नन्दकिशोर-साहू तथा राँची-नगरस्य अभिषेक-मिश्रः सम्मानितौ।

हिन्दुस्थान समाचार / अंशु गुप्ता