दीपकप्रकाशस्य भाजपकार्यकर्तृभिः कृतं भव्यं स्वागतम्
देवघर, 09 अप्रैलमासः (हि.स.)। भारतीयजनतापक्षस्य पूर्वप्रदेशाध्यक्षः राज्यसभासांसदश्च दीपकप्रकाशः बाबा-बैद्यनाथस्य नगर्यां देवघरस्थिते विश्रामगृहे (परिसदने) प्राप्तवान्। तस्य आगमने भाजप-जिलाध्यक्षेण सचिन-रवानी-महोदयेन अङ्गवस्त्रं समर्प्य तस्य स्वागत
राज्यसभा सांसद दीपक प्रकाश का देवघर आगमन


देवघर, 09 अप्रैलमासः (हि.स.)। भारतीयजनतापक्षस्य पूर्वप्रदेशाध्यक्षः राज्यसभासांसदश्च दीपकप्रकाशः बाबा-बैद्यनाथस्य नगर्यां देवघरस्थिते विश्रामगृहे (परिसदने) प्राप्तवान्। तस्य आगमने भाजप-जिलाध्यक्षेण सचिन-रवानी-महोदयेन अङ्गवस्त्रं समर्प्य तस्य स्वागतं कृतम्।

अस्मिन् अवसरे भारतीयजनतापक्षस्य कार्यकर्तृभिः अपि स्वस्य वरिष्ठनेतुः दीपकप्रकाशस्य अङ्गवस्त्रं दत्त्वा उत्साहेन स्वागतं विहितम्। कार्यक्रमकाले सासंदः दीपकप्रकाशः उपस्थितैः कार्यकर्तृभिः सह मिलितवान् तथा च सङ्गठनात्मकविषयेषु विस्तृतां चर्चां कृतवान्। स्वप्रवासक्रमे सः भाजप-जिलामुख्यालयस्य अपि निरीक्षणं कृतवान् तथा च सङ्गठनस्य गतिविधिनां विषये सूचनां प्राप्तवान्।

स्वागतकार्यक्रमे जिलाध्यक्षः सचिन रवानी, मुकेश पाठकः, सचिन सुल्तानिया, प्रो. राजीव रञ्जन सिंहः, मिथिलेश सिन्हा, विनय चन्द्रवंशी, उमाशङ्कर प्रजापतिः, ममता गुप्ता, सुनील मिश्रा, दिगम्बर पाण्डे इत्येतैः सह भारतीयजनतापक्षस्य बहवः कार्यकर्तारः उपस्थिताः आसन्।

हिन्दुस्थान समाचार