Enter your Email Address to subscribe to our newsletters

कोलकाता, 09 अप्रैलमासः(हि.स.)।पश्चिमबङ्गालस्य मुख्यमन्त्री तथा तृणमूल कांग्रेस दलस्य प्रमुखा ममता बनर्जी पुनः भवानीपुर विधानसभाक्षेत्रात् निर्वाचनस्पर्धायां प्रवृत्ता अस्ति। निर्वाचन-शपथपत्रे तया प्रतिपादितं यत् पञ्चदशवर्षपर्यन्तं मुख्यमन्त्रीपदे स्थित्वापि तस्याः जीवनशैली अतीव सरलैव अस्ति।
बुधवासरे ममता बनर्जी कालीघाटस्थितात् स्वगृहात् राल्लीं निष्कास्य अलीपुरस्थितं सर्वे भवनं प्रति पदयात्रां कृत्वा तत्र गत्वा स्वनामांकनपत्रं समर्पितवती। नामांकनसह समर्पिते शपथपत्रे तया स्वस्य आयः, सम्पत्तिः, बङ्कनिक्षेपाः, आभरणानि तथा शैक्षणिकयोग्यता इत्यादीनि सर्वाणि विवरणानि प्रदत्तानि।
शपथपत्रानुसारं तस्याःआहत्य स्थावरसम्पत्तिः १५,३७,५०९ रूप्यकाणि ७१ पैसाः च अस्ति। तस्याः काचिद् चलसम्पत्तिः नास्ति, न च तस्याः नाम्ना किमपि वाहनं पञ्जीकृतम् अस्ति।
अतिरिक्ततया तस्याः नाम्ना न काचित् कृषिभूमिः अस्ति, न च अकृषिभूमिः, अपि च न कश्चन आवासगृहः अस्ति। तया कश्चन ऋणोऽपि न गृहीतः।
दत्तविवरणानुसारं वित्तवर्षे २०२४-२५ तस्याः कुलायः २३,२१,५७० रूप्यकाणि आसीत्। वित्तवर्षे २०२३-२४ तस्याः आयः २०,७२,७४० रूप्यकाणि, वित्तवर्षे २०२१-२२ तस्याः आयः ३८,१४,४१० रूप्यकाणि, तथा वित्तवर्षे २०२०-२१ तस्याः आयः १५,४७,८४५ रूप्यकाणि आसीत्।
नामांकनसमये तस्याः समीपे ७५,७०० रूप्यकाणि नगदरूपेण आसन्। इंडियन बैंक इत्यस्मिन् तस्याः एकः व्यक्तिगतकोषः अस्ति, यस्मिन् १२,३६,२०९ रूप्यकाणि ७१ पणकानि च निहितानि सन्ति।
निर्वाचनव्ययार्थं तस्मिन्नेव बङ्के पृथक्खाते ४०,००० रूप्यकाणि स्थापितानि। एवं बङ्कखातेषु तस्याः कुलनिक्षेपः १२,७६,२०९ रूप्यकाणि ७१ पणकानि च।
वित्तवर्षे २०२५-२६ तया ४०,६०० रूप्यकाणि TDS प्रतिदानरूपेण प्राप्तानि। आभरणरूपेण तस्याः समीपे ९ ग्राम ७५० मिलिग्राम् सुवर्णम् अस्ति, यस्य मूल्यं प्रायः १,४५,००० रूप्यकाणि इति निर्दिष्टम्।
शपथपत्रानुसारं तया १९७७ तमे वर्षे कलकत्ता विश्वविद्यालय इत्यस्मात् स्नातकोत्तराध्ययनं सम्पन्नं कृतम्, यस्य परीक्षा १९७९ तमे वर्षे अभवत्। ततः १९८२ तमे वर्षे जोगेशचंद्र चौधुरी लॉ कॉलेज इत्यस्मात् विधिस्नातकपदवी प्राप्ता।
दाखिलपत्रानुसारं तस्याः विरुद्धं कश्चन आपराधिकप्रकरणं न पञ्जीकृतम्, न च सा कदाचन अपराधे दोषिता घोषिताऽस्ति।
हिन्दुस्थान समाचार