Enter your Email Address to subscribe to our newsletters

जुलाना-मण्डी, (हि.स.)। कृषकेण अपूर्वप्रकारेण स्वविरोधः अभिव्यक्तः। गतौली-ग्राम-निवासी कृषकः नरेश-ढांडा स्वस्य गोधूम-सस्यानि हलयन्त्रं विना वृषभयाने स्थापयित्वा विपणं प्राप्तः। विशेषतया वृषभ-यानस्य अग्रे एकः पुरुषः मृदंगं वादयन् गच्छन् आसीत्, येन एतत् दृश्यं आकर्षणस्य केन्द्रम् अभवत्, तथा च विपणौ स्थितानां जनानां सम्मर्द: अपि एकत्रित: अभवत्।
अस्मिन् अवसरे कृषकः नरेश-ढांडा शासनस्य नीतिषु असन्तोषं प्रकटयन् अवदत् यत् प्रतिदिनं नूतन-नियमाः प्रवर्त्यन्ते, येषां कारणेन कृषकाः बह्व्यः कठिनताः अनुभवन्ति। तेन उक्तं यत् हलयन्त्र-यानानाम् उपरि संख्या-पट्टिकायाः अनिवार्यता तथा बायोमेट्रिक-प्रणाल्याः प्रवर्तनं कृषकाणां कृते क्लेशकारकम् अस्ति। सः अवदत् यत् बहुषु लघु-कृषकेषु आवश्यक-कर्गदानि अथवा प्रौद्योगिकी-सुविधाः न सन्ति, येन तेषां विपणौ सस्य-विक्रये बाधाः उत्पद्यन्ते।
अस्य विरोधस्य प्रदर्शनेन सः वृषभ-यानस्य माध्यमेन सस्यानि आनयन् एतं सन्देशं दातुम् इच्छति यत् पारम्परिक-रीत्या अपि कृषकाः स्वकार्यं सुकरतया कर्तुं शक्नुवन्ति।
जुलाना-मण्डी-मार्केट-समितेः सचिवा कोमिला अवदत् यत् वृषभ-यानं वहन् आगच्छद्भ्यः कृषकेभ्यः द्वार-पत्रं दातुं काचिदपि समस्या नास्ति, यतः वृषभ-याने संख्या-पट्टिकायाः अनिवार्यता नास्ति। कृषकेण वृषभ-याने वहन् आगमने सति तस्मै शीघ्रमेव द्वार-पत्रं प्रदत्तम्।
हिन्दुस्थान समाचार / अंशु गुप्ता