उत्तराखण्डस्य 'आदि लक्ष्य' संस्थानाय एककोटिरूप्यकाणि स्वीकृतानि, जनजातीयविकासस्य प्रोत्साहनम्
देहरादून, 09 अप्रैलमासः (हि.स.)। उत्तराखण्डे जनजातीयक्षेत्राणां विकासस्य शैक्षिकसंरचनायाः च सुदृढीकरणस्य दिशि केन्द्रसर्वकारेण महतीं पहलं (प्रारम्भं) कुर्वता ''उत्तराखण्ड आदि लक्ष्य संस्थान'' इत्यस्य स्थापनाय एककोटिरूप्यकाणां धनराशिः स्वीकृता अस्
मुख्यमंत्री पुष्कर सिंह धामी।


देहरादून, 09 अप्रैलमासः (हि.स.)। उत्तराखण्डे जनजातीयक्षेत्राणां विकासस्य शैक्षिकसंरचनायाः च सुदृढीकरणस्य दिशि केन्द्रसर्वकारेण महतीं पहलं (प्रारम्भं) कुर्वता 'उत्तराखण्ड आदि लक्ष्य संस्थान' इत्यस्य स्थापनाय एककोटिरूप्यकाणां धनराशिः स्वीकृता अस्ति। केन्द्रीय-जनजातीयकार्यमन्त्रिणा जुएल ओराम महोदेन मुख्यमन्त्रिणं प्रति प्रेषिते पत्रे अस्याः स्वीकृतेः सूचना दत्ता।

मुख्यमन्त्री पुष्करसिंहधामी महोदयः प्रधानमन्त्रिणः केन्द्रीयमन्त्रिणः च आभारं प्रकटयन् अवदत् यत् एषा संस्था जनजातीययुवकानां कौशलविकासस्य, शिक्षायाः, आर्थिकसशक्तिकरणस्य च क्षेत्रे महत्त्वपूर्णां भूमिकां निर्वक्ष्यति।

अस्मिन् सन्दर्भे मुख्यमन्त्री पुष्कर सिंह धामी महोदयः पूर्वं केन्द्रीय-जनजातीयकार्यमन्त्रिणं संस्थानस्य स्थापनायै अनुरोधं कृतवान् आसीत्। केन्द्रसर्वकारेण तस्यैव प्रस्तावस्य उपरि विचारं कृत्वा एषा स्वीकृतिः प्रदत्ता। मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारः जनजातीयसमुदायानां समग्रविकासाय प्रतिबद्धः अस्ति तथा च अस्य संस्थानस्य माध्यमेन स्थानीययुवकेभ्यः उत्तमाः अवसराः उपलप्स्यन्ते।

केन्द्रसर्वकारेण २०२५-२६ वित्तीयवर्षस्य अन्तर्गतं राज्यसर्वकारस्य प्रस्तावं स्वीकृत्य 'उत्तराखण्ड आदि लक्ष्य संस्थान' इत्यस्य स्थापनाय एककोटिरूप्यकाणां धनराशिः निर्गता अस्ति। एतत् पदक्षेपं जनजातीयक्षेत्रेषु शिक्षां, कौशलविकासं शोधं च नवीनदिशां प्रदातुं उद्देश्येन स्वीकृतम्।

------------------

हिन्दुस्थान समाचार