नमामि गंगे गंगा तटे मदीयगंगा - मदीयदायित्वस्य दत्तः संदेशः
वाराणसी, 09 अप्रैलमासः (हि. स.)lउत्तरप्रदेशस्य वाराणसी नगरे गुरुवासरे सदानीरा मातुः गंगा नदी तीरे “मेरी गंगा मेरी जिम्मेदारी” इति घोषाः निनदिताः। नमामि गंगे इत्यस्य स्वयंसेवकसदस्याः दशाश्वमेध घाट इति स्थले स्वच्छताकार्यं कृत्वा एतत् संदेशं दत्तवन्त
गंगा किनारे स्वच्छता अभियान


वाराणसी, 09 अप्रैलमासः (हि. स.)lउत्तरप्रदेशस्य वाराणसी नगरे गुरुवासरे सदानीरा मातुः गंगा नदी तीरे “मेरी गंगा मेरी जिम्मेदारी” इति घोषाः निनदिताः। नमामि गंगे इत्यस्य स्वयंसेवकसदस्याः दशाश्वमेध घाट इति स्थले स्वच्छताकार्यं कृत्वा एतत् संदेशं दत्तवन्तः यत् सः एव सत्यः भक्तः भवति यः केवलं गंगायां स्नानं कर्तुं वा पूजां कर्तुं न आगच्छति, अपि तु गंगायाः पवित्रतां स्वच्छतां च रक्षितुं दृढसंकल्पं स्वजीवने धारयति।

अतः वास्तविकभक्तिः एषा एव यत् वयं गंगां न प्रदूषयेम, तस्मिन् कच्रं न क्षिपेम, अन्यान् अपि अस्य विषयस्य प्रति जागरूकान् कुर्याम।

गंगासेवकः राजेश शुक्लः अवदत् यत् यदा प्रत्येकः श्रद्धालुः गंगां मातरं मन्यमानः तस्याः स्वच्छतायाः संरक्षणस्य च उत्तरदायित्वं स्वीकरिष्यति, तदा एव अस्माकं आस्था वास्तवतः सार्थका भविष्यति।

श्रमदानस्य जागरूकतायाः च कार्यक्रमे पुष्पलता वर्मा, बीना गुप्ता, अनिल कपूर, सीमा सचदेव तथा शाश्वत सचदेवाः अपि उपस्थिताः आसन्।

-----------------

हिन्दुस्थान समाचार