Enter your Email Address to subscribe to our newsletters

जोधपुरम्, ०९ अप्रैलमासः (हि.स.)। राजकीय-पॉलिटेक्निक-महाविद्यालये जोधपुरे प्रचलितस्य सप्त-दिवसीय-नारी-आत्मरक्षा-कार्यक्रमस्य अद्य समापनम् अभवत्।
प्रधानाचार्यः डॉ.अजय-माथुरः अवदत् यत् राजकीय-पॉलिटेक्निक-महाविद्यालय-जोधपुरम्, मण्डोर तथा बालोतरा-स्थानानां छात्राभ्यः कृते संस्थाने सप्त-दिवसीय-नारी-आत्मरक्षा-कार्यक्रमः आयोजितः आसीत्। अस्मिन् कार्यक्रमे प्रायः पञ्चाशत् अधिकाः छात्राः आत्मरक्षायाः विविधाः प्रौद्योगिक्य: अधीत्य लाभान्विताः अभवन्।अस्य कार्यक्रमस्य आयोजनं महिला-शक्ति-आत्मरक्षा-केन्द्रेण, पुलिस-आयुक्तालय-जोधपुरेण तथा राजकीय-पॉलिटेक्निक-महाविद्यालय-जोधपुरेण संयुक्ततया कृतम्। नवीन-राज्य-महिला-नीति-२०२० अन्तर्गतं संस्थानस्य छात्राभ्यः कृते पुलिस-परामर्श-केन्द्र-जोधपुरस्य दलद्वारा छात्राणाम् उत्थानाय महाविद्यालयस्य मुख्य-प्राङ्गणे कार्यक्रमः आयोजितः। अस्य अन्तर्गतं छात्राभ्यः मास्टर-प्रशिक्षिकाभ्यां सुशीला-निर्मलाभ्यां पृथक्-पृथक् सत्रयोः विविधासु परिस्थितिषु यथा चैन-स्नेचिंग, बैग-स्नेचिंग, आकस्मिक-आक्रमणादिषु आत्मरक्षायाः उपायाः सरलतया शिक्षिताः।
सप्त-दिवसीय-कार्यक्रमस्य सञ्चालनार्थं प्रभारी अंजू-चौधरी, सह-प्रभारी डॉ.अर्चना-जोशी, ललिता-मीणा, सरोज-चौधरी तथा संयोजकः मंजू-चौधरी, टी.आर.राठौडः च स्वीयं योगदानं दत्तवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता