Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 01 मईमासः (हि.स.)।
असमराज्यस्य मुख्यमन्त्री हिमंत बिस्व सरमा बुद्ध पूर्णिमा-पावनावसरे प्रदेशवासिभ्यः समस्तदेशवासिभ्यश्च हार्दिकाः शुभाशंसाः प्रदत्तवान्, तथा च गौतम बुद्ध-भगवतः सन्देशान् स्वजीवने स्वीकर्तुं आह्वानं कृतवान्।
स्वस्य सामाजिकमाध्यमसन्देशे तेन उक्तं यत् शान्तेः, प्रेम्णः, दयायाः, अहिंसायाः, अनन्तकरुणायाश्च पवित्रोपदेशैः विश्वमानवता आलोकिता अस्ति। महान् गौतमबुद्धस्य जीवनं दर्शनं च अद्यापि अत्यन्तं प्रासंगिकम् अस्ति।
तेन अस्मिन् पावनावसरे बुद्धस्य श्रीचरणयोः श्रद्धां भक्तिं च अर्पयित्वा उक्तं यत् तस्य आदर्शाः अस्मान् सत्यस्य, शान्तेः, सद्भावस्य च मार्गे गन्तुं प्रेरयन्ति।
सः जनान् प्रति आह्वानं कृतवान् यत् ते बुद्धस्य शान्तेः मानवतायाः च सिद्धान्तान् हृदि धारयित्वा सहानुभूत्या, सहिष्णुतया, प्रेम्णा च पूर्णस्य सुन्दरसमाजस्य निर्माणाय संयुक्तरूपेण अग्रे गच्छेयुः।
मुख्यमन्त्री “बुद्धं शरणं गच्छामि” इति उच्चार्य सर्वेषां सुखस्य, शान्तेः, समृद्धेः च कामनां कृतवान्।
हिन्दुस्थान समाचार