Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 01 मईमासः (हि.स.)।
दिल्ली-नगरस्य मुख्यमन्त्री रेखा गुप्ता शुक्रवासरे जनसेवा-सदने स्व-गणना-पद्धत्या जनगणनायां स्वीयविवरणं अभिलेखितवती। तया उक्तं यत् एषा प्रक्रिया सरलाऽस्ति तथा पूर्णतया सुरक्षिताऽपि, येन प्रत्येकः नागरिकः सहजतया अस्मिन् अभियाने सहभागिता कर्तुं शक्नोति।
मुख्यमन्त्रिणा सामाजिक-माध्यमे ‘एक्स’ इत्यत्र स्वीयचित्राणि साझा कृत्वा उक्तं यत् सम्यक् सूचना एव सम्यक् नीतिनिर्माणस्य आधारः भवति। यदा आँकडाः यथार्थाः भवन्ति, तदा एव योजनानां लाभः प्रत्येकं आवश्यकजनं प्रति सम्यग् प्राप्नोति, तथा विकासः अपि सर्वान् सह गच्छन् अग्रे वर्धते।
मुख्यमन्त्री सर्वान् दिल्लीवासिनः प्रति स्व-गणनायां अनिवार्यतया सहभागितां कर्तुं आह्वानं कृतवती। तया उक्तं यत् भवन्तः एव विकसितदिल्ली विकसितभारतस्य च दृढाधारं निर्मास्यन्ति।
उल्लेखनीयम् अस्ति यत् दिल्ली-कैंट् तथा नयीदिल्ली-नगरपालिका-परिषद् क्षेत्रयोः १६ एप्रिल् दिनाङ्कात् एव जनगणना-२०२७ अभियानम् आरब्धम् अस्ति। १ मई दिनाङ्कात् दिल्ली-नगर-निगमस्य (एमसीडी) सर्वेषु वार्डेषु जनगणना-२०२७ इत्यस्य प्रथमः चरणः प्रारब्धः। एतेषु क्षेत्रेषु निवसन्तः जनाः १५ मई पर्यन्तं ऑनलाइन-माध्यमेन स्व-गणना-कार्यं कर्तुं शक्नुवन्ति।
---------------
हिन्दुस्थान समाचार