Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 01 मईमासः, (हि.स.):
मुख्यमन्त्री हिमंत बिस्व सरमा महोदयेन अंताराष्ट्रिय श्रमिक दिवस-अवसरे राज्यस्य सर्वेभ्यः श्रमिकेभ्यः शुभाशंसाः अभिनन्दनानि च प्रदत्तानि।
स्वस्य सामाजिकमाध्यमसन्देशे तेन उक्तं यत् श्रमिकाणां निष्ठा, परिश्रमः, योगदानं च एव विकसितस्य समृद्धस्य च समाजस्य निर्माणमार्गं प्रशस्तं कुर्वन्ति।
मुख्यमन्त्री श्रमिकाणां अमूल्ययोगदानाय कृतज्ञतां व्यक्तवान् तथा च तेषां उत्तमस्वास्थ्यस्य, सुखशान्तेः, उज्ज्वलभविष्यस्य च कामनां कृतवान्। तेन उक्तं यत् “विकसितभारतस्य” निर्माणे श्रमिकाणां भूमिका अतीव महत्त्वपूर्णा अस्ति, तेषां कठिनपरिश्रमेण एव राष्ट्रम् अग्रे गच्छति।
डॉ. सर्मा इदं अपि उल्लेखितवान् यत् केन्द्रराज्ययोः द्विचक्रसरकाराभ्यां श्रमिकहिताय बहवः नीतयः प्रवर्तिताः, येषाम् उद्देशः कार्यपरिस्थितीनां सुधारः, सुरक्षायाः सुनिश्चितिः, तेषां योगदानस्य यथोचितमान्यता च अस्ति।
हिन्दुस्थान समाचार