Enter your Email Address to subscribe to our newsletters

पटना, 01 मईमासः (हि.स.)।
मुख्यमन्त्री सम्राट चौधरी अद्य भगवान् बुद्धस्य जयंती-अवसरे बुद्ध-स्मृति-पार्के आयोजिते विशेष-कार्यक्रमे भगवान् बुद्धस्य पूजा-अर्चनां कृतवान्।
अस्मिन् प्रसङ्गे बौद्ध-भन्तेभिः मुख्यमन्त्रिणे बुद्ध-स्मृति-पार्के स्थापितस्य भगवान् बुद्धस्य प्रतिमायाः, बोधगयास्थितस्य बोधिवृक्षस्य, आनन्द-बोधिवृक्षस्य तथा श्रीलङ्कादेशस्य अनुराधापुरात् आनितस्य बोधिवृक्षस्य पूजा-अर्चना कारिता।
मुख्यमन्त्री बुद्ध-स्मृति-पार्क-स्थिते पाटलिपुत्र-करुणा-स्तूपे भगवान् बुद्धस्य पवित्र-अस्थि-अवशेषानां पूजा-अर्चनां कृत्वा परिक्रमा अपि कृतवान् तथा ध्यानमपि आचरितवान्। तेन सह बौद्ध-भिक्षुभिः सह उपविश्य विश्व-शान्त्यर्थं मंगलकामनाः कृताः, राज्यस्य देशस्य च सुख-समृद्ध्याः अमन-शान्तेः च कामना कृता।
अस्मिन् अवसरे उपमुख्यमन्त्री विजय कुमार चौधरी, विधायक रामकृपाल यादवो, विधायक संजय गुप्ता, पटना-नगरस्य महापौर सीता साहू तथा अन्ये वरीय-अधिकारिणः, बौद्ध-भन्तेभ्यः सह गणमान्य-जनाः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार