Enter your Email Address to subscribe to our newsletters


मंगनम्, 01 मईमासः (हि.स.)।
बुद्ध पूर्णिमा-शुभावसरे भारतसर्वकारस्य संसदीयकार्य-अल्पसंख्यककार्ययोः मन्त्री किरेन रिजिजू शुक्रवासरे प्रातःकाले उत्तर सिक्किम-प्रदेशे लाचुंग-स्थाने सैमलिंग छोलिंग गुंपा-नाम्नि विहारे प्रार्थनां कृत्वा श्रद्धां निवेदितवान्। तेन सह राज्यस्य समाजकल्याणविभागस्य मन्त्री साम्डुप लेप्चा, प्रसिद्धः मोहित चौहान तथा अन्ये जनाः अपि उपस्थिताः आसन्।
पूजां कृत्वा भिक्षुभिः सह संवादं सम्पन्न्य केन्द्रीयमन्त्री तस्मिन्नेव परिसरि निर्माणाधीनस्य गुंपाया निरीक्षणं कृतवान्। तस्मै निर्माणकार्यस्य प्रगत्याः विषये विस्तरेण सूचना प्रदत्ता। तेन गुंपाया तथा परितः स्थितानां संरचनानां शीघ्रसमापनाय भारतसरकारतः आवश्यकसहाय्यस्य आश्वासनं दत्तम्।
अनन्तरं केन्द्रीयमन्त्री आनी गुंपा अपि गत्वा प्रार्थनां कृतवान्।
उल्लेखनीयम् यत् केन्द्रीयसंसदीयकार्य-अल्पसंख्यककार्ययोः मन्त्री किरेनरिजिजू गुरुवासरे स्वीयाधिकारिकयात्रायाः निमित्तं सिक्किम-राज्यं प्राप्तवान्, ततः शीघ्रमेव सः उत्तरसिक्किमप्रदेशस्य यात्रां कृतवान्।
---------------
हिन्दुस्थान समाचार