केदारनाथ धाम्नो यात्रायाम् आगमिष्यमाण श्रद्धालुषु अभूतपूर्वः उत्साहः
देहरादूनम्, 01 मईमासः (हि.स.)।विश्वविख्याते केदारनाथ-धाम-यात्रायां अस्मिन् वर्षे अपि श्रद्धालूनां आगमनसंख्या नूतनं अभिलेखं निर्माति, येन समग्रे क्षेत्रे उत्साहस्य श्रद्धायाश्च अद्वितीयः संगमः दृश्यते। विशालजनसमूहे सति अपि व्यवस्थाः सम्यक् रूपेण सञ्
केदारनाथ में दर्शन के लिए लाइन में खड़े श्रद्धालु।


देहरादूनम्, 01 मईमासः (हि.स.)।विश्वविख्याते केदारनाथ-धाम-यात्रायां अस्मिन् वर्षे अपि श्रद्धालूनां आगमनसंख्या नूतनं अभिलेखं निर्माति, येन समग्रे क्षेत्रे उत्साहस्य श्रद्धायाश्च अद्वितीयः संगमः दृश्यते। विशालजनसमूहे सति अपि व्यवस्थाः सम्यक् रूपेण सञ्चालिताः सन्ति, अतः श्रद्धालुभ्यः कापि असुविधा न अनुभूयते।

श्रद्धालूनां वर्धमानसंख्यां दृष्ट्वा रुद्रप्रयाग-जनपदस्य जिलाधिकारी विशाल मिश्रा स्वयमेव व्यवस्थापने प्रवृत्तः सन् निरन्तरं पर्यवेक्षणं करोति। प्रशासनद्वारा यात्रामार्गात् आरभ्य केदारनाथ-धामपर्यन्तं सर्वस्तरे व्यापकाः व्यवस्थाः कृताः। पादयात्रामार्गे विश्रामस्थलानि, भोजनव्यवस्था, पेयजलम्, चिकित्सासुविधाः, सुरक्षा-व्यवस्थाश्च सुदृढतया स्थापिताः। धामक्षेत्रे अपि स्वच्छता, आवासव्यवस्था, आपत्कालीनसेवाश्च प्राथमिकतया व्यवस्थिताः।

जिलाप्रशासनस्य, पुलिस-विभागस्य, स्वास्थ्यविभागस्य, आपदाप्रबन्धनदलस्य च समन्वितप्रयत्नैः यात्रा सुगमा सुरक्षिताच कृताऽस्ति। अस्य परिणामरूपेण देशस्य विविधप्रदेशेभ्यः विदेशेभ्यश्च आगताः श्रद्धालवः व्यवस्थां मुक्तकण्ठेन प्रशंसन्ति।

गाजियाबाद-नगरात् आगतः श्रद्धालुः अनिल कौशिक स्वानुभवं कथयन् अवदत् यत् प्रशासनस्य व्यवस्थाः अत्युत्तमाः सन्ति। अस्माभिः बाबा केदारनाथस्य दर्शनं अत्यन्तं सहजतया प्राप्तम्। धामे स्वच्छतायाः विशेषः ध्यानः क्रियते, प्रशासनदलानि च सर्वदा सहाय्यार्थं सज्जानि सन्ति।

दिल्ली-नगरात् प्रथमवारम्आगतः श्रद्धालुयुगलः युगल समनिया अवदत्—“अत्र आगत्य अतीव सुखदः अनुभवः प्राप्तः। अत्र व्यवस्थाः अस्माकं अपेक्षाभ्यः अपि उत्कृष्टतराः सन्ति। वयं जिलाप्रशासनस्य हृदयेन आभारं प्रकटयामः।”

तथैव बेंगलुरु-नगरात् आगतः श्रद्धालुः नवीन राज्यसर्वकारस्य जिलाप्रशासनस्य च प्रशंसां कृत्वा अवदत् यत् एतादृशेषु दुर्गमेषु भूगोलिकपरिस्थितिषु अपि याः व्यवस्थाः कृताः, ताः वास्तवमेव प्रशंसनीयाः सन्ति।

महाराष्ट्रस्य नागपुर-नगरात् आगतः राजेन्द्र अपि व्यवस्थां प्रशंसन् अवदत् यत् एतादृशे उच्चप्रदेशे एतादृशीनां सुविधानां व्यवस्था कर्तुं महती परिस्थितिः अस्ति, किन्तु प्रशासनं तां सम्यक् निर्वहति। विशेषतः स्वच्छता तथा पुलिस-प्रशासनस्य तत्परता अत्यन्तं सराहनीया अस्ति। सर्वेषां साहाय्यार्थं पुलिसप्रशासनदलानि निरन्तरं सक्रियाणि सन्ति।

हिन्दुस्थान समाचार