Enter your Email Address to subscribe to our newsletters

चण्डीगढ-नगरम्, ०१ मईमासः (हि.स.)। पञ्जाब-विधानसभायां शुक्रवासरे एकदिवसीये विशेष-सत्रे प्रसिद्ध-छायाचित्रकारेण रघु-रायेन सह अनेकान् दिवंगतान् प्रति श्रद्धाञ्जलिः अर्पिता। विधानसभायाः कार्यवाही आरभ्यमाणायां सभाध्यक्षः कुलतार-सिंह-सन्धवा समग्रस्य सदनस्य पक्षतः शोक-प्रस्तावं प्रस्तुतवान्। स्वतन्त्रता-सेनानी चमन-लालः अपि विश्वप्रसिद्धः छायाचित्रकारः रघु-रायः च सदने स्मृतौ आनितौ।
रघु-रायेन भोपाल-गैस-दुर्घटना, भारत-पाकिस्तान-युद्धस्य समये पाकिस्तानी-सेनया भारतस्य समीपे आत्मसमर्पणम्, तथा १९८४ वर्षे ‘ऑपरेशन-ब्लू-स्टार’ इत्यस्य अनन्तरं स्वर्ण-मन्दिरस्य क्षतिग्रस्त-परिसरस्य छायाचित्राणि गृहीतानि। पद्मश्री-पुरस्कृतः रघु-रायः इत्यस्य अतिरिक्तं पञ्जाब-विधानसभायां सैनिक-अधिकारी लेफ्टिनेन्ट्-जनरल-दीपइन्दर-सिंहः, मैक्सिको-ओलम्पिक-क्रीडायां हॉकी-क्रीडकः हरवन्त-सिंह-ग्रेवालः इत्यादयः अपि अनेके दिवंगताः श्रद्धाञ्जलिं प्राप्नुवन्। सभाध्यक्षेन प्रस्तावः प्रस्तुतः, अनन्तरं सदने उपस्थितैः सत्तापक्ष-प्रतिपक्षयोः सर्वैः विधायकैः द्विनिमेष-पर्यन्तं मौनं धृतम्।
हिन्दुस्थान समाचार / अंशु गुप्ता