Enter your Email Address to subscribe to our newsletters

‘दृश्यम् ३’ इति चलच्चित्रं प्रति प्रशंसकानां मध्ये उत्साहः वर्धितः अस्ति। चलच्चित्रस्य निर्मातारौ कुमार-मङ्गात-पाठकः अभिषेक-पाठकः च उद्घाटितवन्तौ यत् हिन्दी-मलयालम्-उभय-संस्करणे ‘दृश्यम् २’ इत्यस्य कथाम् अग्रे नेष्यतः, किन्तु हिन्दी-संस्करणे कथा-पटकथा-प्रस्तुतीकरण-स्तरेषु अनेकानि महत्त्वपूर्णानि परिवर्तनानि करिष्यन्ते। निर्मातृभ्यां उक्तं यत् एतेषां परिवर्तनानां उद्देश्यं हिन्दी-दर्शकैः सह चलच्चित्रस्य अधिक-सुदृढं सम्बद्धीकरणम् अस्ति।
चलच्चित्रे पुनरपि अजय-देवगनः मुख्य-भूमिकायां दृश्यते। अभिषेक-पाठकः अवदत् यत् अस्मिन् पर्याये दर्शकाः केचन नूतनान् अद्वितीयांश्च पक्षान् द्रक्ष्यन्ति, एषा च केवलं पुरातन-कथायाः प्रतिकृतिः न भविष्यति। तेन संकेताः दत्ताः यत् चलच्चित्रे मनोरञ्जनस्य रहस्यस्य च स्तरः पूर्वापेक्षया अधिकः भविष्यति।
निर्मातारौ एतदपि सुनिश्चितवन्तौ यत् हिन्दी-‘दृश्यम् ३’ इति चलच्चित्रं ०२ अक्टूबर-दिने चलच्चित्रगृहेषु प्रदर्शितं भविष्यति, येन फ्रेञ्चैजी-परम्परा अक्षुण्णा भविष्यति। अपरतः मोहनलाल-अभिनीतं मलयालम्-‘दृश्यम् ३’ इति चलच्चित्रं अस्मात् पूर्वं २१ मे-मासे प्रदर्शितं भविष्यति। अतिरिक्तरूपेण पैनोरमा-स्टूडियोज-संस्था शीघ्रमेव मलयालम्-चलच्चित्र-जगति अपि प्रवेशं करिष्यति, यस्मिन् मोहनलालः महत्त्वपूर्णां भूमिकां निर्वहिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता