Enter your Email Address to subscribe to our newsletters



रायपुरम्, १२ मईमासः (हि.स.)। चम्पारण्यधाम छत्तीसगढस्य धार्मिक-सांस्कृतिक-आध्यात्मिक-परम्परायाः एकं पवित्रं केन्द्रं वर्तते, यत्र भक्तेः, इतिहासस्य प्रकृतेश्च अद्भुतः संगमः दृश्यते। धार्मिकनगरी राजिमस्य समीपे स्थितं एतद्धाम महान् वैष्णवसन्तः महाप्रभु-वल्लभाचार्यस्य जन्मस्थलीरूपेण समग्रे देशे प्रसिद्धम् अस्ति। आध्यात्मिक-ऊर्जया परिपूर्णम् एतत् स्थानं वर्षपर्यन्तं श्रद्धालून् पर्यटकांश्च स्वाभिमुखं आकर्षयति।
वैष्णव-सम्प्रदायस्य विशेषतः गुजरात-प्रदेशस्य श्रद्धालूनां कृते चम्पारण्यस्य अत्यन्तं विशेषं महत्त्वम् अस्ति। महाप्रभु-वल्लभाचार्यः पुष्टिमार्गस्य प्रवर्तकः मन्यते, गुजरात-प्रदेशे च तस्य अनुयायिनां संख्या अत्यधिकास्ति। श्रीनाथजी-कृष्णभक्त्योः सम्बद्धस्य वैष्णव-समाजस्य कृते चम्पारण्यं तीर्थस्थलवत् मान्यते। अतः गुजरात-राजस्थान-महाराष्ट्रादिभ्यः देशस्य अन्येभ्यश्च राज्येभ्यः बहुसंख्यकाः श्रद्धालवः अत्र दर्शन-पूजार्चनयोः कृते आगच्छन्ति। अनेकानि वैष्णव-कुटुम्बानि स्वजीवने न्यूनातिन्यूनम् एकवारं चम्पारण्यधाम-यात्रां अत्यन्तं शुभां मन्यन्ते।
महाप्रभु-वल्लभाचार्यस्य जन्मसम्बद्धा कथा अपि अत्यन्तं रोचका श्रद्धया च परिपूर्णा अस्ति। मान्यतानुसारं तस्य मातापितरौ दक्षिणभारततः काशी-यात्रायै निर्गतवन्तौ। तस्मिन् काले देशे राजनैतिक-अस्थिरतायाः आक्रमणानां च कालः प्रवर्तमानः आसीत्। यात्राकाले तौ वर्तमान-चम्पारण्य-प्रदेशम् अगच्छताम्, यत्र सघनानि वनानि शान्तं च वातावरणम् आसीत्। तस्मिन्नेव स्थाने तस्य मातुः प्रसवपीडा अभवत्, शमीवृक्षस्य अधः च बालकस्य जन्म अभवत्। कथ्यते यत् जन्मसमये बालकः निश्चेष्टः इव दृश्यते स्म, अतः मातापितरौ तम् ईश्वरस्य इच्छाम् इति मत्वा तत्रैव सुरक्षितस्थाने त्यक्तवन्तौ। पश्चात् रात्रौ ताभ्यां स्वप्ने भगवतः श्रीकृष्णस्य दर्शनम् अभवत्, यत्र उक्तं यत् बालकः दिव्यस्वरूपः अस्ति। यदा तौ पुनः प्रत्यागतवन्तौ, तदा तौ अपश्यताम् यत् बालकः अग्निमण्डलेन सुरक्षितरूपेण परिवृतः अस्ति। एष एव बालकः अग्रे गत्वा महाप्रभु-वल्लभाचार्यरूपेण प्रसिद्धः अभवत् तथा भक्त्यान्दोलनाय नूतनां दिशां प्रदत्तवान्।
महाप्रभु-वल्लभाचार्येण वैष्णव-भक्ति-परम्परायां “पुष्टिमार्गस्य” स्थापना कृता। तस्य उपदेशेषु प्रेम, सेवा, समर्पणं भगवन्तं श्रीकृष्णं प्रति अनन्यभक्तिश्च निहिताः सन्ति। तेन समाजाय सहज-भक्तेः मानवतायाश्च मार्गः प्रदर्शितः। एतस्मात् कारणात् चम्पारण्यधाम अद्यापि वैष्णव-सम्प्रदायस्य अनुयायिनां कृते अत्यन्तं महत्त्वपूर्णं तीर्थस्थलं मन्यते।
“चम्पारण्यम्” इति नाम्नः पृष्ठेऽपि ऐतिहासिकी मान्यता सम्बद्धा अस्ति। कथ्यते यत् प्राचीनकाले एषः प्रदेशः चम्पकवृक्षैः आच्छादितः आसीत्, यस्मात् कारणात् अस्य नाम “चम्पारण्यम्” इति अभवत्। अद्यापि अत्र हरितं शान्तं च वातावरणं श्रद्धालुभ्यः आध्यात्मिक-शान्तेः अनुभूतिं ददाति।
चम्पारण्यस्थितं मन्दिरं स्वप्राचीन-वास्तुकलया धार्मिक-महत्त्वेन च विशेष-आकर्षणस्य केन्द्रं वर्तते। मन्दिर-परिसरे महाप्रभु-वल्लभाचार्यस्य प्रतिमा स्थापिता अस्ति। अत्र भगवतः श्रीकृष्णस्य, श्रीनाथस्य, वैष्णव-परम्परासम्बद्धानां अन्येषां पूजनीय-स्वरूपाणां च पूजार्चना क्रियते। मन्दिर-परिसरे महाप्रभोः सभा, चरणचिह्नानि, साधनास्थलम्, यज्ञशाला च श्रद्धालूनां विशेष-श्रद्धाया केन्द्राणि सन्ति। अत्र प्रतिदिनं पूजार्चना, आरार्तिकी, भजन-कीर्तनं धार्मिक-अनुष्ठानानि च आयोज्यन्ते। देशस्य विविधभागेभ्यः आगच्छन्तः श्रद्धालवः अत्र दर्शनं कृत्वा आत्मिक-शान्तिम् आध्यात्मिक-अनुभूतिं च प्राप्नुवन्ति।
महाप्रभु-वल्लभाचार्य-जयंती-अवसरे चम्पारण्यधाम्नि विशेषाः धार्मिक-उत्सवाः आयोज्यन्ते। अस्मिन् काले सहस्रशः श्रद्धालवः अत्र आगच्छन्ति, सम्पूर्णं वातावरणं भक्त्या श्रद्धया च परिपूर्णं भवति। भजन-संकीर्तन-कथा-धार्मिक-प्रवचनैः सह अत्र छत्तीसगढस्य लोकसंस्कृतेः पारम्परिक-जीवनशैल्याश्च सुन्दरं दृश्यम् अपि दृश्यते।
चम्पारण्यधाम केवलं धार्मिक-दृष्ट्या एव महत्त्वपूर्णं नास्ति, अपितु छत्तीसगढस्य सांस्कृतिक-परम्परायाः आध्यात्मिक-परिचयस्य च जीवंत-प्रतीकमपि अस्ति। राजिम-सिरपुरादिभिः अन्यैः धार्मिक-स्थलैः सह एतत् स्थानं प्रदेशस्य धार्मिक-पर्यटनाय राष्ट्रिय-स्तरे परिचयं प्रदातुं महत्त्वपूर्णां भूमिकां निर्वहति। अत्र आगच्छन्तः पर्यटकाः छत्तीसगढस्य सरलतां, लोकसंस्कृतिं, ग्रामीण-जीवनम्, आतिथ्यं च अनुभवन्ति।
राजधानी रायपुरतः प्रायः पञ्चाशत् किलोमीटर-दूरे स्थितं चम्पारण्यम् मार्गेण सुलभतया प्राप्यते। रायपुर-अभनपुर-राजिम-नगरेभ्यः अत्र नियमित-बस-सेवा निजी-वाहन-सुविधा च उपलब्धा अस्ति। समीपस्थं रेलस्थानकं रायपुरम् अस्ति तथा समीपस्थः विमानपत्तनः स्वामी-विवेकानन्द-विमानतलम् अस्ति। ऐतिहासिक-महत्त्वेन समृद्धं चम्पारण्यधाम अद्यापि श्रद्धालुभ्यः सेवा-समर्पण-भक्तीनां सन्देशं प्रददाति। एतत् पावन-स्थलं छत्तीसगढस्य धार्मिक-परिचयस्य, सांस्कृतिक-गौरवस्य, आध्यात्मिक-चेतनायाश्च महत्त्वपूर्णं प्रतीकं भवति।
हिन्दुस्थान समाचार / अंशु गुप्ता