श्रम-सुधाराः पूर्णतया प्रवर्तिताः, सर्वकारः निर्धनानां समर्थकः उद्योगानुकूलश्च अस्ति - माण्डविया
नवदेहली, १२ मईमासः (हि.स.)। केन्द्रीय-श्रम-रोजगार-मन्त्री मनसुख-माण्डविया मङ्गलवासरे उक्तवान् यत् केन्द्र-सर्वकारेण चतस्रः नवीनाः श्रम-संहिताः पूर्णतया प्रवर्तिताः। तेन उक्तं यत् वर्तमान-सर्वकारः निर्धनानां समर्थकः उद्योगानुकूलश्च अस्ति। माण्डविया
सीआईआई के वार्षिक व्यापार सम्मेलन 2026 को संबोधित करते मांडविया


नवदेहली, १२ मईमासः (हि.स.)। केन्द्रीय-श्रम-रोजगार-मन्त्री मनसुख-माण्डविया मङ्गलवासरे उक्तवान् यत् केन्द्र-सर्वकारेण चतस्रः नवीनाः श्रम-संहिताः पूर्णतया प्रवर्तिताः। तेन उक्तं यत् वर्तमान-सर्वकारः निर्धनानां समर्थकः उद्योगानुकूलश्च अस्ति।

माण्डविया देहली-नगरे भारतीय-उद्योग-परिसंघस्य (सीआईआई) वार्षिक-व्यापार-सम्मेलनम् २०२६ सम्बोधयन् एतद् उक्तवान्। केन्द्रीय-मन्त्री अवदत् यत् श्रम-उद्योगौ प्रभावी-समन्वयाय परस्परं पूरकौ भवेताम् तथा परिवर्तनैः सह सामञ्जस्यं स्थापयेताम्।

मन्त्री उक्तवान् यत् सर्वकारेण देशे उद्योगेषु अनुपालन-भारः न्यूनः कृतः तथा श्रमिकाणां कृते सामाजिक-सुरक्षा-परिसरस्य विस्तार-दिशि कार्यं कृतम्।माण्डविया सीआईआई-इत्यस्य वार्षिक-व्यापार-शिखर-सम्मेलनम् २०२६ सम्बोधयन् आसीत्, यस्य विषयः आसीत्— “अग्रिम-वंशस्य श्रम-सुधाराः : उद्योग-विकासस्य रोजगार-सृजनस्य च प्रोत्साहनम्।”

माण्डविया अवदत् यत् सामाजिक-सुरक्षा-परिसरः एक-दशकात् पूर्वं २९ कोटि-जनाभ्यः वर्धित्वा अधुना ९४ कोटि-जनान् प्राप्तवान्। नवीन-श्रम-संहितानां विषये प्रकाशं कुर्वन् माण्डविया अवदत् यत् एते सुधाराः श्रम-केन्द्रिताः उद्योग-केन्द्रिताश्च सन्ति। सर्वकारः निर्धनानां कृषकाणां च हिताय उद्योगानुकूलतायै च प्रतिबद्धः अस्ति। मन्त्री एतस्य विषये बलं दत्तवान् यत् उद्योग-श्रमौ समान-भविष्यस्य दिशि मिलित्वा अग्रे गन्तव्यम्।

हिन्दुस्थान समाचार / अंशु गुप्ता