Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 13 मईमासः, (हि.स.)।
मुख्यमन्त्री डॉ. हिमन्त बिस्व सरमा बुधवासरे गुवाहाटीनगरस्य सिलपुखुरीस्थिते स्मारके भारतरत्न लोकप्रिय गोपीनाथ बोरदोलोई इत्यस्मै श्रद्धाञ्जलिं समर्पितवान्।
मुख्यमन्त्री गोपीनाथ बोरदोलोईं प्रेरणास्रोतः इति वर्णयन् असमप्रदेशस्य पूर्वोत्तरक्षेत्रस्य च हितानां तथा अस्मितायाः रक्षणे तस्य ऐतिहासिकयोगदानं स्मृतवान्।
डॉ. सरमा उक्तवान् यत् लोकप्रियगोपीनाथबोरदोलोईस्य दूरदर्शी नेतृत्वं आधुनिकअसमस्य निर्माणे तथा राष्ट्रियएकतायाः सुदृढीकरणे अत्यन्तं महत्त्वपूर्णम् आसीत्।
ज्ञातव्यं यत् गोपीनाथ बोरदोलोई असमप्रदेशस्य प्रथमः मुख्यमन्त्री आसीत्। अतः डॉ. सरमा स्वसर्वकारस्य कार्यारम्भं बोरदोलोईं पुष्पाञ्जलिं समर्प्य कृतवान्। मुख्यमन्त्रिणा सह चत्वारः मन्त्रिणः रामेश्वर तेली, अतुल बोरा, अजंता नेओग तथा चरण बोडो एवं गुवाहाटीनगरस्य अन्ये चत्वारः विधायकाः अपि उपस्थिताः आसन्।
अस्मिन् अवसरे माध्यमप्रतिनिधिभिः सह वार्तालापं कुर्वन् डॉ. सरमा उक्तवान् यत् आगामि २१ मई दिवसे विधानसभायाः सत्रम् आयोजितं भविष्यति, यस्मिन् सर्वकारः स्वस्य बहुमतं प्रमाणयिष्यति। तेन सह उक्तं यत् विधानसभा-सत्रस्य अनन्तरं मन्त्रिमण्डलविस्तारविषये चर्चा क्रियिष्यते।
हिन्दुस्थान समाचार