स्वास्थ्यकेन्द्रेषु, सी.एस.सी.केन्द्रेषु च उत्तम-अन्तर्जाल-सम्पर्कः भवेत्-उपायुक्तः
खुन्ती, 13 मे-मासः । बुधवासरे संग्राहलय-प्रेक्षागृहे उपायुक्तस्य सौरभकुमारभुवनिया इत्यस्य अध्यक्षतायां डी.ई.जी.एस. तथा मोबैल-टवर तथा कनेक्टिविटि-समित्याः सभा अभवत्। सभायां जनपदस्य अन्तर्जाल-सम्पर्कः, भारत-अन्तर्जालं, सी.एस.सी.केन्द्राणां सञ्चालनं,
बैठक


खुन्ती, 13 मे-मासः । बुधवासरे संग्राहलय-प्रेक्षागृहे उपायुक्तस्य सौरभकुमारभुवनिया इत्यस्य अध्यक्षतायां डी.ई.जी.एस. तथा मोबैल-टवर तथा कनेक्टिविटि-समित्याः सभा अभवत्।

सभायां जनपदस्य अन्तर्जाल-सम्पर्कः, भारत-अन्तर्जालं, सी.एस.सी.केन्द्राणां सञ्चालनं, डिजिटल-सेवाः च समीक्षिताः। सभायाम् उपायुक्तः मण्डले अन्तर्जाल-सौकर्यस्य वर्तमानस्थितिं समीक्षितुं, भारत-अन्तर्जाल-सम्बद्धानां समस्यानां निवारणं च प्राधान्येन कर्तुं मण्डल-सूचना-अधिकारिणं निर्देशितवान्।

सः अवदत् यत् सर्वेषु स्वास्थ्यकेन्द्रेषु, सी.एस.सी.केन्द्रेषु च उत्तमं अन्तर्जाल-सम्पर्कं सुनिश्चितं करणीयम्, येन सामान्यजनः सहजतया डिजिटल-सेवानां लाभं प्राप्तुं शक्नोति।

सामान्यनागरिकाणां समस्यानां शीघ्रसमाधानाय सार्वजनिक-अभियोग-पटलस्य विकासाय उपायुक्तः निर्देशं दत्तवान्। सः अवदत् यत् अस्य जालपुटस्य माध्यमेन जनाः अन्तर्जाल-माध्यमेन परिवादं कर्तुं शक्नुवन्ति तथा च परिवादानां समयोचितं निष्पादनं सुनिश्चितं भविष्यति। समाप्तानि सी.एस.सी.केन्द्राणि शतप्रतिशतं क्रियमाणानि कर्तुं, पञ्चायत-भवनेषु उत्तम-अन्तर्जाल-सुविधां प्रदातुं, ज्ञान-केन्द्राणां प्रभावीकार्यम् सुनिश्चितं कर्तुं च सभायां महत्त्वं दत्तम्।

एतदतिरिच्य, जन्म-मृत्यु-प्रमाणपत्रानां च प्रलंबितानां आवेदनपत्राणां समीक्षां कुर्वन्, सम्बद्धान् अधिकारिणः समयसीमायाः अन्तरे निष्पाद्यताम् इति निर्देशः दत्तः। सामान्यजनानाम् सौलभ्यं मनसि स्थापयित्वा, आधार-पत्राणि, जन्म-मृत्यु-प्रमाणपत्राणि च निर्मातुं विशेषशिबिराणि आयोजयेत् इति अपि उक्तम्।

Hindusthan Samachar / Divya Ranjan