मुख्यमन्त्री योगी आदित्यनाथो ऋतुविहीनवृष्ट्या, विद्युद्वाहनेन च प्राणहानिं स्व्यकरोत्।
लखनऊ-उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथो राज्ये असमयवृष्ट्या, मेघगर्जनेन, विद्युद्वाहनेन च कृतानां क्षतिपूर्तिं दातुं निर्देशं दत्तवान्। सः अवदत् यत् पीडितानां उपशमनस्य कार्यं 24 घण्टाभ्यन्तरे समापयेत् इति। उत्तरप्रदेशे अत्यधिकवृष्ट्या, मे
मुख्यमंत्री योगी


लखनऊ-उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथो राज्ये असमयवृष्ट्या, मेघगर्जनेन, विद्युद्वाहनेन च कृतानां क्षतिपूर्तिं दातुं निर्देशं दत्तवान्। सः अवदत् यत् पीडितानां उपशमनस्य कार्यं 24 घण्टाभ्यन्तरे समापयेत् इति।

उत्तरप्रदेशे अत्यधिकवृष्ट्या, मेघगर्जनेन, विद्युद्वाहनेन च प्राणहानिः, पशुहानिः, आर्थिकहानिः च जाताः इति मुख्यमन्त्रिणा योगी वर्येण ज्ञातं। सः मृतानां शोकाकुलपरिवारेभ्यः शोकं प्रकटितवान्। सः अन्यविभागानां अधिकारिभिः सह सर्वेषां मण्डलानां मण्डल-दंडाधिकारिभ्यः तत्स्थानं प्राप्य पीडितानां कृते सर्वान् सम्भवान् साहाय्यान् प्रदातुं निर्देशं दत्तवान्। सः अवदत् यत् अस्मिन् विषये उपेक्षां न सह्यते इति।

मुख्यमन्त्रिणः योगी आदित्यनाथ् वर्येण प्रकाशितेन वक्तव्ये अधिकारिणः जागरूकाः भवेयुः इति निर्देशः दत्तः अस्ति। सः राजस्वविभागं, कृषिविभागं, आश्वस्ति-संस्थां च क्षतेः सर्वेक्षणं कृत्वा सर्वकाराय प्रतिवेदनं दातुं निर्देशं दत्तवान्। सर्वेक्षणानन्तरं क्षतेः मूल्याङ्कनं पूर्णम् अभवत् तथा च तत्क्षणम् क्षतिपूर्तिं दातुम् आदिष्टम्।

--------

Hindusthan Samachar / Dheeraj Maithani