Enter your Email Address to subscribe to our newsletters

मथुरानगरम्, १५ मे-मासः (हि.स.)। श्रीकृष्ण-जन्मभूमि-शाही-ईदगाह-मस्जिद्-प्रकरणस्य हिन्दू-पक्षकारः महेन्द्र-प्रताप-सिंह-अधिवक्ता धार-स्थित-भोजशाला-प्रकरणे इन्दौर-उच्च-न्यायालयस्य आगतं निर्णयं श्रीकृष्ण-जन्मभूमि-शाही-ईदगाह-प्रकरणस्य कृते “महत् नैयायिक-ऐतिहासिक-निदर्शनम्” इति उक्तवान्। तेन उक्तं यत् यथा न्यायालयेन भोजशाला-प्रकरणे पुरातात्त्विक-साक्ष्याणां, प्राचीन-परम्पराणां, पूजायाः निरन्तरतायाश्च महत्त्वं दत्तम्, तथैव मथुरा-स्थिते श्रीकृष्ण-जन्मभूमि-प्रकरणे अपि ऐतिहासिक-तथ्यानि उपेक्षितुं न शक्यन्ते।
श्रीकृष्ण-जन्मभूमि-मुक्ति-न्यासस्य अध्यक्षः हिन्दू-पक्षकारश्च महेन्द्र-प्रताप-सिंह-अधिवक्ता उक्तवान् यत् अयोध्या-राम-मन्दिर-भोजशाला-प्रकरणयोः निर्णयाभ्यां एतत् स्पष्टं जातं यत् न्यायालयः अधुना ऐतिहासिक-तथ्यानि, ए.एस.आइ.-विवरणम्, धार्मिक-परम्पराश्च गम्भीरतया पश्यति। तस्य कथनम् अस्ति यत् मथुरा-नगरेऽपि मूल-गर्भगृह-स्थले हिन्दूनां कृते पूजायाः अधिकारः प्रदातव्यः। सः न्यायालये अस्य याचनां करिष्यति।
एलेक्जेण्डर-कनिङ्घम्-प्रतिवेदने अपि मन्दिरस्य उल्लेखः—
श्रीकृष्ण-जन्मभूमि-मुक्ति-न्यासस्य अध्यक्षः महेन्द्र-प्रताप-सिंह-अधिवक्ता उक्तवान् यत् भारतीय-पुरातत्त्व-विभागस्य प्रथम-निदेशकः एलेक्जेण्डर-कनिङ्घम् इत्यनेन १८६२ तः १८६५ पर्यन्तं सिद्धीकृतेषु अभिलेख-पुस्तकेषु च अस्य उल्लेखः लभ्यते यत् यत्र अधुना शाही-ईदगाहः स्थितः अस्ति, तत्र पूर्वं भगवतः श्रीकृष्णस्य मन्दिरम् आसीत्। तेन उक्तं यत् ए.एस्.आइ.-संस्थया अपि पूर्वमेव एतत् स्पष्टं कृतं यत् श्रीकृष्ण-जन्मभूमेः समीपे स्थितायाः मस्जिदः अधः मन्दिरस्य अवशेषाः विद्यमानाः सन्ति। तेन उक्तं यत् भोजशाला-निर्णये इन्दौर-उच्च-न्यायालयेन पूजा-अधिनियमः १९९१ प्रवर्तितः न मानितः, यदा इलाहाबाद-उच्च-न्यायालयेनापि अस्मिन् अधिनियमे महत्त्वपूर्णाः टिप्पण्यः कृताः। अतः मथुरा-प्रकरणे अपि एषः विषयः निर्णायकः सिद्धः भवितुम् अर्हति।
मथुरा-नगरेऽपि इतिहास-परम्परयोः आधारेण भविष्यति निर्णयः—
न्यासस्य अध्यक्षः महेन्द्र-प्रताप-सिंहः उक्तवान् यत् भोजशाला-प्रकरणे न्यायालयेन एतत् स्वीकृतं यत् हिन्दू-पूजायाः परम्परा कदापि समाप्ता नाभवत्। एषैव स्थितिः श्रीकृष्ण-जन्मभूमेः अपि अस्ति, यत्र कोटिशः जनानां आस्था अद्यापि मूल-गर्भगृह-स्थलेन सह सम्बद्धा अस्ति। तेन उक्तं यत् मथुरा केवलं धार्मिक-स्थलम् न, अपितु सनातन-संस्कृतेः भारतीय-सभ्यतायाश्च केन्द्रम् अस्ति। न्यायालयैः ऐतिहासिक-तथ्यानां सांस्कृतिक-धरोहरस्य च प्रदत्तेन महत्त्वेन हिन्दू-समाजस्य विश्वासः सुदृढः जातः।
अधुना मूल-गर्भगृहे पूजायाः याचनां करिष्यामः—
हिन्दू-पक्षकारः महेन्द्र-प्रताप-सिंह-अधिवक्ता उक्तवान् यत् श्रीकृष्ण-जन्मभूमि-प्रकरणे मूल-गर्भगृह-स्थले पूजायाः अधिकारस्य याचना अधिक-सुदृढतया प्रस्तूयते। तेन उक्तं यत् राम-मन्दिर-काशी- भोजशाला-प्रकरणानाम् अनन्तरं अधुना मथुरा-प्रकरणम् अपि निर्णायक-पक्षस्य दिशि अग्रे गच्छति।तेन विश्वासः व्यक्तीकृतः यत् न्यायालयः ऐतिहासिक-साक्ष्याणां, ए.एस.आइ.-विवरणस्य, सनातन-परम्पराणां च आधारेण निष्पक्षं निर्णयं दास्यति।
Hindusthan Samachar / Divya Ranjan