उत्तर-प्रदेशं कर्कटरोग-मुक्तं करिष्यामः - ब्रजेश-पाठकः
लखनऊ-नगरम्, १५ मईमासः (हि.स.)। अस्माभिः स्व-राज्यं कर्कटरोग-मुक्तं कर्तव्यम्। स्वस्थ-नागरिकैरेव सशक्त-प्रदेशस्य विकसित-राष्ट्रस्य च आधारशिला स्थाप्यते। कर्कटरोगं तथा अन्य-रोगान् वयं सर्वे मिलित्वा पराजेष्यामः। प्रधानमन्त्रिणः नरेन्द्रमोदिनः विकसित-
बैठक करते ब्रजेश पाठक व मयंकेश्वर शरण सिंह


लखनऊ-नगरम्, १५ मईमासः (हि.स.)। अस्माभिः स्व-राज्यं कर्कटरोग-मुक्तं कर्तव्यम्। स्वस्थ-नागरिकैरेव सशक्त-प्रदेशस्य विकसित-राष्ट्रस्य च आधारशिला स्थाप्यते। कर्कटरोगं तथा अन्य-रोगान् वयं सर्वे मिलित्वा पराजेष्यामः। प्रधानमन्त्रिणः नरेन्द्रमोदिनः विकसित-भारत-संकल्पस्य पूर्तौ स्वास्थ्य-विभागस्य महत्त्वपूर्णा भूमिका भविष्यति। प्रदेशस्य उप-मुख्यमन्त्रिणः ब्रजेश-पाठकस्य वक्तव्यम्। सः शुक्रवासरे विधानसभास्थिते सभागारे उत्तर-प्रदेश-राज्य-कर्कटरोग-अभियानस्य, उत्तर-प्रदेश-सर्जिकल-सर्विसेज-सशक्तीकरण-अभियानस्य तथा उत्तर-प्रदेश-ट्रॉमा-इमरजेन्सी-नेटवर्क-इत्यस्य अधिक-सशक्तीकरणार्थं आयोजितां प्रस्तुतीकरण-सभां सम्बोधयति स्म।

सभायां सर्वेषु ७५ जनपदेषु १००-शय्या-युक्तानां कर्कटरोग-चिकित्सालयानां स्थापनायाः तथा सर्वकारेण रोगिणां रोगस्य प्रारम्भिक-स्तरे एव परिचयार्थं व्यापक-अभियानस्य सञ्चालनस्य विषये विविधेषु महत्त्वपूर्णेषु बिन्दुषु विस्तृता चर्चा अभवत्।

उप-मुख्यमन्त्री अवदत् यत् प्रदेशं कर्कटरोग-मुक्तं कर्तुं वयं सर्वे संयुक्तरूपेण कार्यं कुर्मः। उत्तर-प्रदेश-सर्जिकल-सर्विसेज-सशक्तीकरण-मिशनस्य विषये अपि प्रस्तुतीकरणं प्रदत्तम्। अस्मिन् आगामी-वर्षाणां विषये विस्तृता प्रतिवेदनिका प्रस्तुतिता। अस्मिन् मानव-संसाधनात् आरभ्य व्यय-विवरणपर्यन्तं सर्वं प्रस्तूतम्। उप-मुख्यमन्त्रिणा सर्वेषु बिन्दुषु विस्तरेण चर्चा कृता। तेन उक्तं यत् चिकित्साक्षेत्रे सर्जिकल-सर्विसेज अत्यन्तं महत्त्वपूर्णः विषयः अस्ति। रोगिणां कृते एषा योजना अत्यन्तं लाभप्रदा सिद्धा भविष्यति। उप-मुख्यमन्त्रिणा उक्तं यत् प्रस्तुतीकरण-सभायाम् उत्तर-प्रदेश-ट्रॉमा-इमरजेन्सी-नेटवर्क-इत्यस्य अधिक-सुदृढीकरणाय अपि प्रस्तुतीकरणं कृतम्। अस्मिन् नेटवर्क कथं अधिक-सशक्तं कर्तुं शक्यते इति विषये विस्तृत-योजना प्रस्तुतिता।

मानकान् न पूरयन्ति चेत् ट्रॉमा-केन्द्राणि फलकानि अपास्यन्ताम्

ब्रजेश-पाठकेन उक्तं यत् प्रदेशे ये निजी-चिकित्सालयाः ट्रॉमा-मानकान् न पूरयन्ति, तथापि स्व-चिकित्सालयानां बहिः ट्रॉमा-सेन्टर-फलकानि स्थापयन्ति, तेषां विरुद्धं सूचना प्रदाय नगर-निगमानां माध्यमेन तानि फलकानि अपास्यन्ताम्। सहैव सर्वकारीय-चिकित्सालयानां समीपे अपि निजी-चिकित्सालयानां रोगिणः तेषां परिचारकांश्च सम्बोधयन्ति ये फलकानि, तानि अपास्यन्ताम्।

उप-मुख्यमन्त्रिणा सर्वकारीय-आपत्कालीन-वाहन-सेवयोः १०८ तथा १०२ विषये अपि आवश्यक-निर्देशाः प्रदत्ताः।सभायां राज्यमन्त्री मयंकेश्वर-शरण-सिंहः, अपर-मुख्य-सचिवः (चिकित्सा-स्वास्थ्य-विभागः) अमित-कुमार-घोषः, स्वास्थ्य-विभागस्य वरिष्ठ-अधिकारीणः चिकित्सकाः च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan