Enter your Email Address to subscribe to our newsletters

मुरादाबाद-नगरम्, १५ मईमासः (हि.स.)। यदि भवतः आधार-पत्रे जन्मतिथिः त्रुटिपूर्णा अस्ति, तर्हि राशन-पत्रम्, आयुष्मान-पत्रम् इत्यादीनि अन्यानि पत्राणि अपि निर्मातुं न शक्यन्ते। एतादृशे सति आधार-पत्रे त्रुटिपूर्णतया मुद्रितां जन्मतिथिं संशोधयितुं चतुर्षु तथ्येषु कस्यचित् एकस्य आवश्यकता भवति।
यूनीक-आइडेन्टिफिकेशन-अथॉरिटी-ऑफ-इण्डिया (यूआईडीएआई) इत्यस्य अनुसारम् १८-वर्षाधिक-आयुषां आवेदनकर्तॄणां कृते आधार-पत्रे जन्मतिथेः परिवर्तनार्थं जन्म-प्रमाण-पत्रम्, हाईस्कूल-अङ्कपत्रम्, पारपत्रम् अथवा पेंशन-प्रदान-आदेशः इत्येतेषु कश्चन एकः प्रमाणपत्ररूपेण आवश्यकः अस्ति। १८-वर्षात् न्यून-आयुषां आवेदनकर्तॄणां कृते केवलं जन्म-प्रमाण-पत्रम् एव आवश्यकम् अस्ति।
आधार-पत्रे जन्मतिथिः तदैव परिवर्तिता भविष्यति यदा आवेदनकर्तुः आधार-पत्रे सम्बद्ध-प्रमाणपत्रेषु च नाम समानरूपेण लिखितं भवति। आधार-पत्रे आवाससंकेतेन सह अधुना जन्मतिथिरपि अनेकवारं परिवर्तयितुं शक्यते। अधिक-सूचनार्थं यूआईडीएआई-जालपुटम् https://uidai.gov.in/images/ अवलोकनीयम्।
Hindusthan Samachar / Divya Ranjan